________________
-
कूपदृष्टान्तविशदीकरणं - निर्दोषत्वानुमितिप्रतिबन्धकत्वाभावादिति।
अतिगहनमिदं तत्त्वमत उच्यते विभावनीयं सुधीभिः।
यशो.: ननु परिणामप्रामाण्ये विधिवैगुण्येऽपि को दोष इत्याशङ्क्याह
दुग्गयनारीणाया जइवि पमाणीकया हवइ भत्ती ।
तहवि अजयणाजणिआ हिंसा अन्नाणओ होई ॥६॥ यन्द्र.: अधुना षष्ठगाथायाः प्रस्तावनायां प्रथमं पूर्वपक्षं दर्शयन्ति महोपाध्यायाः - ननु इत्यादिना। परिणामप्रामाण्ये = कर्मबन्धाबन्धादौ जीवाध्यवसाय एव प्रमाणं' इत्येवं स्वीक्रियमाणे सति विधिवैगुण्येऽपि = क्रियात्मकस्य बाह्यविधे: सर्वथाऽभावेऽपि विकलतायामपि वा को दोषः = पापबन्धादिरूपो भवेत् ? न कोऽपि? शुभपरिणामस्यैव प्रामाण्यात् इति।
पूर्वपक्षस्यायमाशयः -
महोपाध्यायैः परिणामस्य प्रामाण्यमप्युक्तं, तथा → विधिशुद्धायां जिनपूजायामल्पस्यापि कर्मबन्धस्याभावः, विधिविरहितायां भक्तिसहितायान्तु तस्यामल्पपापबन्धः - इत्येवमप्युक्तम्। इत्थं च महोपाध्याया विधेरेव पापबन्धाभावकारणत्वमविधेरेव च पापबन्धकारणत्वं प्रतिपादयन्ति, ते एव च परिणामस्य प्रामाण्यं प्रतिपादयन्ति। ततश्च भवतीयमाशङ्का यदुत "यदि परिणाम एव प्रमाणं, तर्हि विधिरविधिर्वा कोऽपि भवतु, परिणामानुसारेणैव फलं भविष्यति, तस्मात् विधेराग्रहो न न्याय्य इति।
महोपाध्यायाः षष्ठगाथायां समादधति - दुग्गय इत्यादि। षष्ठगाथायाः संस्कृतछाया अन्वयश्चैवम् - यद्यपि दुर्गतनारीज्ञातात् भक्तिः प्रमाणीकृता भवति । तथाऽपि अयतनाजनिता हिंसा अज्ञानतो भवति ॥६॥ यशो.: दुर्गतनारीज्ञाताद् यद्यपि प्रमाणीकृता भवति भक्तिः,
यन्द्र.: दुर्गतनारी नाम निर्धनस्त्री, वयोवृद्धया तया वनोत्पन्नैः मुधालब्धैः तुच्छपुष्पैः श्रीमन्महावीरपूजाकरणभावना कृता, भक्तिरूपेण तादृशपरिणामेन तस्याः स्वर्गलोकप्राप्तिरभवत्। परम्परया च मुक्तिः। न च तया विधिसमाचरणं कृतम्, विधिज्ञानस्यैवाभावात्। तथाऽपि फलं सम्प्राप्तम्, इत्थं च प्रस्तुतप्रसङ्गात् प्रमाणीकृता = 'इदं प्रमाणं' इत्येवं प्रसाधिता भवति भक्तिः = परिणामः ।
यशो. तथापि अयतनाजनिता हिंसाऽज्ञानतो भवति, 'प्रमादानाभोगाभ्यां प्राणभूतानि हिनस्ती'||ति वचनात्।