________________
-
कूपदृष्टान्तविशदीकरणं ।
अयं भावः - प्रस्तुतग्रन्थद्वितीयगाथावृत्तौ चतुर्थपञ्चाशकगतदशमगाथावृत्तिः प्रदर्शिता, तत्र च अभयदेवसूरिणाऽनुमानं कथितमस्ति यथा अधिकारिणः किञ्चित्सदोषमपि स्नानादि गुणकरं विशिष्टशुभभावहेतुत्वात् इत्यादि। तत्र सदोषमपि इत्यत्र यः 'अपि' शब्दः, स सम्भावनायां वर्तते। ततश्च न सर्वं स्नानादि सदोषमेव, यस्मात् यस्मिन्स्नानादौ सम्पूर्णा यतना वर्तते, तत्र सम्पूर्णयतनाप्रभावाद् भावोत्कर्षो भवत्येव, भावोत्कर्षे च सति स्नानादौ नाल्पोऽपि पापकर्मबन्धादिरूपो दोषोऽस्तीति। ___ अत एव या शुद्धजिनपूजा, तस्यामशुद्धदानस्य दृष्टान्तः प्रतिकूल एव। यस्मात् अशुद्धदानमल्पपापादिकारणं, शुद्धजिनपूजा तु नेति। तस्मादशुद्धजिनपूजायामेवाशुद्धदानस्य दृष्टान्त उचितः । तस्मात्स्थानाङ्गोक्ता जिनपूजाऽशुद्धव ग्राह्या, अशुद्धदानदृष्टान्तस्य तत्र प्रतिपादितत्वात्। स्थानाङ्गपाठस्तु "जिनपूजाद्यनुष्ठानस्यापि तथात्वप्रसङ्गात्" इत्यादिरूपः प्रसिद्ध एवेति।
नन्वेवं विधिशुद्धं स्नानपूजादिकं निर्दोषं सम्भवति, तर्हि "स्नानपूजादिकं निर्दोषं" इत्यनुमितिः सत्यैव स्यात्, एवं तर्हि सा स्वीकर्तव्यैव स्यात्। अभयदेवसूरिणा तु यत् 'न चैतदागमानुपाति' इत्यादिना पञ्चाशकवृत्तौ तन्निषेधः कृतो दृश्यते, तत्कथं घटेतेति शङ्कायामाह - सूरिः = अभयदेवसूरिः पुनः सामान्यानुमितौ = स्नानत्वपूजात्वाद्यवच्छेदेनेत्यादि ।
इदमत्र तात्पर्यम्,
स्नानपूजादीनि द्विविधानि - विधिशुद्धान्यविधियुक्तानि च। तत्र यानि विधिशुद्धनि, तानि सर्वाणि निर्दोषाणि, यानि चाविधियुक्तानि तानि किञ्चित्सदोषाणि। एवं सति,
विधिशुद्धानि स्नानादीनि निर्दोषाणि इत्यनुमानं सत्यम्, अविधियुक्तानि स्नानादीनि सदोषाणि इत्यनुमानं सत्यम्। परन्तु, 'स्नानादीनि निर्दोषाणि' इत्यनुमानं यदि क्रियते, तयत्र स्नानत्वावच्छेदेन सकलस्नानेषु निर्दोषत्वं साध्यते, तच्च न युक्तं, अविधियुक्तेषु निर्दोषत्वाभावात्। तस्मात्सूरिः अस्मिन्ननुमाने अंशतो बाधप्रदर्शनाय 'न चैतदागमानुपाति' इति कथयति। अर्थात् 'हे अनुमानकारक ! त्वया सर्वेषु स्नानेषु निर्दोषत्वं साध्यते, तत्र विधिशुद्धेषु निर्दोषत्वसाधनं युक्तम्, किन्तु अविधिशुद्धेषु पक्षांशभूतेषु निर्दोषत्वसाधनं न युक्तम्' इत्येवं सूरिः प्रदर्शयति।
तथा च सूरेरयमेवाशयः यदुत विधिशुद्धानि स्नानादीनि निर्दोषाण्येव, अविधियुक्तानि स्नानादीनि किञ्चित्सदोषाण्येव, किन्तु सर्वाणि स्नानादीनि तु निर्दोषाणि सदोषाणि वा न वक्तव्यानि, अंशतो बाधसम्भवादिति।
अंशतो बाधः कथं भवतीत्येतदेवाह - विधिविरहितायाः पूजायाः इत्यादि। पक्षस्य द्वौ अंशौ - विधिशुद्धा पूजा, विधिरहिता पूजा च। तत्र विधिरहितायां पूजायां पक्षांशभूतायां दुष्टत्वमस्ति, ततश्च निर्दोषत्वं नास्ति, ततश्चाशंतो साध्याभावात्मकरूपो बाधदोषोऽत्रानुमाने भवतीति।