SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं - यन्द्र.: 'अशुद्धदानादिदृष्टान्तैः क्रियमाणा जिनपूजा विधिरहितैव ग्राह्या' इत्यत्र युक्त्यन्तरमाह - किञ्चेत्यादि। प्रथमं भावार्थः प्रतिपाद्यते। गृहस्था द्विविधाः – संविग्नभाविता: पार्श्वस्थादिभिः लुब्धकदृष्टान्तभाविताश्च। तत्र संविग्नभाविताः संविग्नैः भावितत्वादेव शुद्धमेव दानं प्रयच्छन्ति, पार्श्वस्थादिभिः भावितास्तु लुब्धकदृष्टान्तभावितत्वादेवाशुद्धमपि दानं प्रयच्छन्ति। पार्श्वस्थादयश्च लुब्धकदृष्टान्तं तान् प्रतीत्थं प्रतिपादयन्ति यथा लुब्धकानां मृगान् प्रति धावनं श्रेयः, तेषां हननं श्रेयः, मृगाणां तु तेभ्यः पलायनं श्रेयः, द्वयेऽपि स्वोचितं कार्यं कुर्वन्ति। एवं हे गृहस्थाः, भवन्तो लुब्धकसदृशाः, वयन्तु मृगसदृशाः । अशुद्धदानं च अस्मद्धननसदृशं। भवतां हि केनाऽपि प्रकारेणास्माकं अशुद्धमपि दानं कर्त्तव्यं, तदेव च भवतां श्रेयः, अस्माकं तु तदग्रहणं श्रेयः, सर्वैः स्वोचिते कर्त्तव्ये यतितव्यम्'इति। एवं च श्रुत्वा ते गृहस्था अशुद्धदानेऽपि प्रगुणा भवन्तीति। __ अत्र च यः संविग्नगीतार्थो धर्मोपदेशकः, तेन गृहस्थान् प्रति क उपदेशो दातव्य इति शास्त्रे प्रतिपादितम्। यदुत तादृशोपदेशकेन सर्वेभ्यः शुद्धदानस्यैवोपदेशो दातव्यः, यत्र तु अल्पदायकादिरूपं विशिष्टं क्षेत्रं, दुष्कालादिरूपो विशिष्टः कालः, ग्लानत्वादिरूपो विशिष्टभावश्च, तत्राशुद्धदानस्यावश्यकतायां सत्यां सर्वेभ्योऽशुद्धदानस्याप्युपदेशं ददाति इति। अत्र क्षेत्रकालभावविशेषं विना यदोत्सर्गत: सर्वेभ्यः शुद्धदानप्ररूपणं क्रियते, तदा संविग्नभावितश्रोतृन् प्रति स उपदेशो पिष्टपेषणतुल्य एव, यतस्ते प्रस्तुतोपदेशं विनाऽपि शुद्धमेव दानं प्रदातुं प्रवणा इति। ___यदा तु क्षेत्रादिविशेषमाश्रित्याशुद्धदानोपदेशो दीयते, तदा लुब्धकदृष्टान्तभावितान् प्रति स उपदेश: पिष्टपेषणतुल्यः, यतस्ते प्रस्तुतोपदेशं विनाऽपि अशुद्धं दानं प्रदातुं प्रगुणा एवेति। ___ इत्थं च शास्त्रपाठानुसारेण निश्चीयते यदुत अशुद्धदानं लुब्धकदृष्टान्तभाविता एव कुर्वन्ति, न तु संविग्नभाविताः। ते तु यदा जिनपूजां कुर्वन्ति, तदा अशुद्धदानवत् मुग्धत्वात् अविधिसहितामेव कुर्वन्ति, ततश्च तैः क्रियमाणा जिनपूजाऽल्पतरपापबहुनिर्जरायाः कारणं स्यादेवेति स्थानाङ्गसूत्रे येऽशुद्धदानादयो दृष्टान्ता गृहीताः, तैः क्रियमाणा जिनपूजाऽपि मुग्धैः क्रियमाणत्वात् अविधियुतैव सम्भवतीति अविधिबलात् साऽल्पपापबन्धकारणं भवतु नाम, न काऽपि बाधाऽस्माकं, 'विधिशुद्धा जिनपूजा लेशतोऽपि पापबन्धकारणं नास्त्येव'इत्यस्माकमभिप्रायादिति। अधुनाऽक्षरार्थः। संविग्गभावियाणं = संविग्नसाधुभिः भावितानां गृहस्थानां लुद्धयदिळंतभावियाणं च = लुब्धकदृष्टान्तैः भावितानां च गृहस्थानां खित्तकालं = जनरहितं दीर्घाध्वानं दुष्कालादिकं वा भावं च = स्वस्य ग्लानत्वादिकं च मुक्त्वा कहंति = कथयन्ति सुद्धंछ = शुद्धदानं संविग्नगीतार्थोपदेशकाः। तादृशक्षेत्राद्यभावे शुद्धदानं तादृशक्षेत्रादिसद्भावे तु अशुद्धदानं गृहस्थान् प्रति कर्त्तव्यतयोपदिशन्तीति भावः ।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy