SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । यशो.: अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात्। यन्द्र.: तथा स्थानाङ्गव्याख्यानेऽपि विधिवैकल्यवत्येव ग्राह्या' इत्यत्र युक्त्यन्तरमपि प्रदर्शयन्ति'न हि स्वल्पपाप... तथात्वप्रसङ्गात्' इत्यत्र अशुद्धदानादिदृष्टान्तैः क्रियमाणायाः इत्यादि। __ अयं भावः - प्रथमसूत्रे त्रीणि अल्पायुष्कताकारणानि प्रदर्शितानि। तत्र प्रथमं पृथिव्याद्यारम्भेण जिनपूजाकरणे प्राणातिपातः, द्वितीयं स्वभाण्डासत्योत्कर्षणादिना जिनपूजाकरणे मृषावादः, तृतीयं आधाकर्मकरणादिनाऽशुद्धं दानम्। अत्र त्रीण्यपि एकस्यैव कार्यस्य कारणतया गृहीतानीति सदृशानि ग्राह्याणीति स्पष्टम्। तत्र च स्वभाण्डासत्योत्कर्षणं अविधिरेव, एवं आधाकर्मादिनाऽशुद्धदानमपि अविधिः एव, ततश्च तैः सह गृहीता जिनपूजा विधिसहिता ग्रहीतुं नैव शक्यते, अपि तु अविधिसहितैव ग्राह्या। सा च अविधिसद्भावादल्पपापकारणं भवेदेवेति न दोषः। अन्वयार्थस्त्वेवम्-अशुद्धदानासत्योत्कर्षणादिदृष्टान्तैः क्रियमाणा जिनपूजा विधिशुद्धा ग्रहीतुं नोचिता, किन्तु अविधिसमन्वितैवेति। यशो.: 'काऊण जिणाययणेहिं मण्डियं सयलमेइणीवट्टं दाणाइचउक्केण वि सुट्ठ वि गच्छिज्ज अच्चुअं न परओ' त्ति महानिशीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात्। यन्द्र.: ननु अशुद्धादिदानस्य यत् अल्पायुष्कताफलं, तदेव विधिशुद्धपूजायाः फलं यदि भवेत्, तर्हि तादृश्येव पूजा ग्राह्या भवेत्। उपरितनमनुष्ठानमशुद्धं सत् हीनं फलं ददाति, अधस्तनमनुष्ठानं शुद्धं सत् उत्तम फलं ददातीति कुत्रचित् द्वयोः फलं समानमपि स्यात्। यथा अशुद्धं सर्वविरतिचारित्रं मोक्षं न ददाति, किन्तु सौधर्मदेवलोकं, शुद्धं तु जिनपूजासामायिकप्रभृतिकमपि सौधर्मदेवलोकं ददातीति एवमत्रापि अशुद्धदानादिकं मोक्षं मुक्त्वाऽल्पपापबहुनिर्जराऽल्पायुष्कतारूपं फलं ददाति, शुद्धं तु जिनपूजादिकमपि मोक्षं मुक्त्वा तदेव फलं ददातीति प्रथमसूत्रे अशुद्धदानादिभिः सह शुद्धा जिनपूजा किमर्थं न गृह्यते? इत्याशङ्कायामाह - काऊण जिणाययणेहिं इत्यादि। गाथाया अन्वयो भावार्थश्चायम्। जिनायतनैः सकलमेदिनीवृत्तं = सकलपृथ्वीवर्तुलं मण्डितं कृत्वा तथा सुष्ठ्वपि दानादिचतुष्केनाऽपि अच्युतं गच्छेत्, न परतः = अच्युतादुपरि गच्छेत् इति। महानिशीथे छेदग्रन्थविशेषे सामान्यतो = अशुद्धदानस्वभाण्डासत्योत्सर्पणादिरूपं विशेष अनुक्त्वा जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन = दानादिचतुष्केनाऽपि उत्कर्षतो अच्युतं यावत् गमनं, जिनायतनैः पृथ्वीमण्डनकरणलक्षणया जिनपूजयाऽपि च उत्कर्षतो अच्युतं यावद् गमनं इत्येवं य उपदेशः = निरूपणं, तेन विशेषे = अशुद्धदानादिरूपे विशेषे विशेषस्यैव = अशुद्धाया एव जिनपूजायाः, .
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy