________________
कूपदृष्टान्तविशदीकरणं
प्रार्थना अभ्यन्तरविभूतिरूपस्य भावस्य = पदार्थस्य उपरागेन = अभेदतयाऽनुभूयमानेन सम्बन्धेन युक्तं यत्तीर्थकरत्वं, तत्प्रार्थनास्वरूपा ।
किञ्चित्कालानन्तरं द्वावपि जीवौ पुनस्तामेव प्रार्थनां कुरुतः, तदाऽपि सा प्रार्थना उभयोः स्वस्वरूपैव, एवं बहुशस्तां प्रार्थनां कृत्वा यदा तौ तया प्रार्थनयाऽपि भावितौ भवतः, तदा 'तीर्थकरत्वं किं ?' इति उपयोगं विनैव प्रार्थनां कुरुत:, अर्थात् केवलं 'तीर्थकरत्वं' इति शब्दमेव उपयोगविषयीकुरूतः, तदर्थस्तु बाह्यविभूतिरूपः अभ्यन्तरविभूतिरूपो वा न तयोर्मनसि स्फुरति । एतत्तु स्पष्टं यदुत संस्काररूपेण तु स अर्थस्तयोर्मनसि विद्यत एव। अत एव कश्चिद् यदि तौ पृच्छति, तदा तौ स्वस्वसंस्कारानुसारेणैव प्रत्युत्तरं दास्यति यदुत 'तीर्थंकरत्वं नाम बाह्यविभूतिः' इति । यदि वा 'तीर्थंकरत्वं नामाभ्यन्तरविभूतिः' इति ।
एतच्चानुभवसिद्धमपि, यथा 'णमो अरिहंताणं' इति वदतः कस्यचित् अष्टप्रातिहार्यादिमतोऽर्हत उपस्थितिर्मनसि भवति, कस्यचित्प्रतिमायाः, कस्यचिच्च शब्दमात्रस्य उपस्थितिर्भवतीति ।
ततश्च तीर्थकरत्वशब्देन बाह्यविभूतिं उपस्थापयतः प्रार्थनं दुष्टं, तीर्थकरत्वपदेनाभ्यन्तरविभूतिं उपस्थापयतः प्रार्थनं अदुष्टम्। परन्तु तीर्थकरत्वपदेन बाह्यविभूतिं अभ्यन्तरविभूतिं वा कामपि अनुपस्थापयतः केवलं तीर्थंकरत्वमेवोपस्थापयतः प्रार्थनं किं दुष्टं अदुष्टं वेति प्रश्नकारस्याशयः ।
अधुनाऽक्षरार्थः ।
उभयभावस्य = छत्रचामरादिबाह्यविभूतिरूपभावस्य क्षायिकविभूतिरूपभावस्य च उपरागेण सम्बन्धेन विनिर्मुक्तं = विरहितं यत् तीर्थकरत्वस्य = अर्थात् केवलं तीर्थकरशब्दरूपतया उपस्थितस्य प्रार्थना किंरूपा दुष्टाऽदुष्टा वेति प्रश्नकर्तुरभिप्रायः ।
यशो.: औदयिकभावप्रार्थनाविशिष्टा निदानं, क्षायिकभावप्रार्थनाविशिष्टा चाऽनिदानम् । यन्द्रः महोपाध्यायाः समाद औदयिकभावेत्यादि । तथा च यदि सा प्रार्थना औदयिकभावप्रार्थनाविशिष्टा, तर्हि निदानं, यदि च क्षायिकभावप्रार्थनाविशिष्टा, तर्हि अनिदानमिति ।
यशो. : वैशिष्ट्यं सामानाधिकरण्यतत्तद्व्यवधानाभावकूटसम्बन्धाभ्याम् ।
थन्द्र.: ननु अधुना तु केवलं उभयभावसम्बन्धविनिर्मुक्ततीर्थकरत्वप्रार्थनैवास्ति, न तु तन्मनसि औदयिकभावस्य प्रार्थना, न वा क्षायिकभावस्य प्रार्थनाऽधुनोपस्थिताऽस्ति । ततश्च कथं एकयाऽप्यविशिष्ट तीर्थंकरत्वप्रार्थना निदानमनिदानं वा स्यादित्यत आह वैशिष्ट्यं च सामानाधिकरण्यतत्तद्व्यवधानाभावकूटसम्बन्धाभ्याम् इति ।
=
-
Ge
इदमत्र तात्पर्यम्।
चैत्राभिधानः पुरुषो दशमे पञ्चदशमे अष्टादशमे विंशतितमे च वर्षे औदयिकभावरूपं तीर्थकरत्वं