________________
***************************************************************
ધર્મપરીક્ષા
सदाशिवः परंब्रह्म सिद्धात्मा तथातेति च । शब्दस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ।।
I
तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।। ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ।। सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितं । आसन्नोऽयमृजुमार्गस्तद्भेदस्तत्कथं भवेत् ।।
इति ।
चन्द्र० : " तेषां सर्वज्ञभक्तौ अविवादमेव" इति शास्त्रपाठप्रदर्शनेन प्रकटयन्ति महोपाध्यायाः-उक्तं चेत्यादि ।
योगदृष्टिसमुच्चयगाथासंक्षेपार्थस्त्वयम् -
--
(१) येषां महात्मनां मिथ्यादृष्ट्यादीनां चेतः चितं इह संसारे प्राकृतेषु : शब्दरूपरसगन्धस्पर्शादिरूपेषु भावेषु = पदार्थेषु निरुत्सुकं = निःस्पृहं भवभोगविरक्तास्ते
भवातीतार्थयायिनः
मोक्षगामिनः ।
=
=
=
=
=
(२) तेषां
मोक्षगामिनां मिथ्यादृष्ट्यादीनां शमपरायणो मार्गः
मोक्षमार्गः
अवस्थाभेदभेदेऽपि = अवस्थाभेदात् कथञ्चित्तेषां जीवानां परस्परं भेदेऽपि, अवस्थाभेदश्च स्पष्ट एव । जलधौ तीरमार्गवद् एक एव ।
प्रथमचतुर्थादिगुणस्थानप्रयुक्तः
प्रसिद्धं हि निर्वाणसंज्ञितं परं संसारातीततत्त्वं शब्दभेदेऽपि तत्त्वतो
(३) तद् हि नियमाद् एकमेव ।
=
=
(४) शब्दभेदमेवाह - सदाशिव: परंब्रह्म सिद्धात्मा तथाता इति चैवमादिभिः शब्दैः अन्वर्थात् = व्युत्पत्यर्थात् एकमेव तद् उच्यते ।
(५) “अन्वर्थादेकमेव निर्वाणतत्त्वमत्रोच्यते" इत्येतत्कथं घटते ? इति शङ्कायामाह - तल्लक्षणाविसंवादात् = निर्वाणलक्षणस्य प्रकृतशब्दार्थेषु घटमानत्वाद् युक्तमेवोक्तं यदुत अन्वर्थादेकमेव निर्वाणतत्त्वं तैः शब्दैरुच्यत इति ।
ननु कथं निर्वाणलक्षणस्यैतेषु शब्दचतुष्ट्यार्थेषु अपि संवादः ? इत्यत आह जन्माद्ययोगतो निराबाधं अनामयं निष्क्रियं परं तत्त्वं च तस्मात् तन्निर्वाणमेव सदाशिवपरब्रह्मसिद्धात्मातथाताशब्दैरुच्यते, न त्वन्यदिति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૯૫
यतो
-