________________
BOKKXXXXXXXXXXXXX
धापरीक्षा onl 000000000
0 00000000000000000 तेषामपि जैनत्वप्रसङ्गाद्, इत्यतस्तेषां विशेषमाह-गलितासद्ग्रहदोषा इति । येषांक ह्यसद्ग्रहदोषात्स्वस्वाभ्युपगतार्थपुरस्कारस्तेषां रागद्वेषादिविशिष्टकल्पितसर्वज्ञाभ्युप
गन्तृत्वेऽपि न भावजैनत्वम् । येषां तु माध्यस्थ्यावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांशे * नाग्रहस्तेषां मुख्यसर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्वं स्यादेवेति भावः । र चन्द्र० : व्याकुलीभूतः पूर्वपक्षः प्राह - ननु एवं = मिथ्यादृशामपि भावजैनत्वे
ऽभ्युपगम्यमाने उच्छिन्ना = विनाशमापन्ना जैनाजैनव्यवस्था = "एते जैनाः, एते अजैनाः" * * इति व्यवस्था । कथं विच्छिन्ना ? इत्यत्र पूर्वपक्ष एव कारणमाह - बारिपि सर्वैः = * सुजैनभिन्नैरपि सर्वैः नाममात्रेण = "अयं शंकरः सर्वज्ञः, अयं विष्णुः सर्वज्ञः" इति
शंकरादिनाममात्रेण, न तु परमार्थतः, परमार्थतः शङ्करादीनामसर्वज्ञत्वात् । सर्वज्ञाभ्युपगमात् । ततश्च तेषामपि = सर्वेषामपि जैनबाह्यानां जैनत्वप्रसङ्गात् । तथा च सर्वेषां जैनत्वप्रसङ्गात् । को नामाजैनः स्यात् ? एवं च जैनाजैनव्यवस्थाया विच्छेद एवेति । ____अतः = जैनाजैनव्यवस्थालोपप्रसङ्गसम्भवात् कारणात् तेषां = येषां सर्वज्ञसेवकत्व* मभ्युपगम्यते, तेषां मिथ्यादृशां विशेषं = सर्वज्ञसेवकत्वं येषु नाभ्युपगम्यते, तेभ्यो भेदं आह
गलितासद्ग्रहेत्यादि । एतदेव स्पष्टयन्नाह - येषां ह्यसद्ग्रहेत्यादि । है अयं भावार्थः - द्विविधा हि मिथ्यात्विनः - कदाग्रहिणो मध्यस्थाश्च । तत्र ये कदाग्रहिणः, *
ते स्वाभ्युपगतमर्थं प्रत्यक्षादिबाधितं ज्ञात्वाऽपि तमेव निरूपयति, कुयुक्तिशतैश्च पोषयन्ति । * तादृशार्थप्रणेतारं च सर्वज्ञं घोषयन्ति । आत्मानं च तादृशसर्वज्ञसेवकं घोषयन्ति ।
प्रत्यक्षादिबाधितार्थप्रणेता च न परमार्थतः सर्वज्ञः, किन्तु रागद्वेषादिविशिष्ट एव । ततश्च ते में * रागद्वेषादिविशिष्टे काल्पनिकसर्वज्ञत्वमेवाभ्युपगच्छन्ति, ततश्च तेषां तात्त्विकसर्वज्ञाभ्यपगन्तृत्वं नास्तीति न ते भावजैनत्वं यान्ति ।
ये तु माध्यस्थ्यनिर्मलप्रज्ञाः, ते हि "आत्मा नित्य एव, अनित्य एव वा" इत्यादि * विरुद्धमतविषयभूते नित्यत्वादिपदार्थ आग्रहवन्तो न भवन्ति । किन्तु "अस्माकं तावत् * ॐ स्वक्षयोपशमानुसारेण आत्मा नित्य एव प्रतिभाति, अनित्य एव वा प्रतिभाति । किन्तु * नास्माकमस्मिन्पदार्थे आग्रहः, सर्वज्ञदृष्ट्या यः पदार्थः पारमार्थिको भवेत्, स एव ममापि , अभिप्रेतः" इति विचारवन्तो भवन्ति । अत एव सम्यक्प्रज्ञापनायां सत्यां में स्वाभ्युपगतार्थपरित्यागेऽपि समुल्लासवन्तो भवन्ति । तेषां तात्त्विकसर्वज्ञस्वीकाराद् भावजैनत्वं * अभवत्येवेति ।
英英英英英英英英英英英英英英英英英英英
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
મહામહોપાશ્ચાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત છ ૮૧