________________
XXXXXXXX
**************************
એ ધર્મપરીક્ષા
જ છે. એટલે અજૈનોમાં આવતી અતિવ્યાપ્તિ દૂર કરવા આ વિશેષણ આવશ્યક છે.)
यशो० : भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमिति सप्तमीगर्भसमासान्नातिव्याप्तितादवस्थ्यम्।
चन्द्र० : ननु तथाप्यतिव्याप्तिर्भवत्येव । यतस्तेन भिक्षुणा बोद्धमतविरुद्धो यः पदार्थः परिकल्पितः, स भगवत्प्रणीतशास्त्रेनापि बाधित एव । न हि तेन बौद्धमतं त्यक्त्वा जैनमतं स्वीकृतं येन तत्पदार्थो भगवत्प्रणीतशास्त्रानुसारी भवेत् । तथाहि - केनचिद् भिक्षुणा "सर्वं क्षणिकं" इति बौद्धमतमवगणय्य " आत्मानं विना सर्वं क्षणिकं" इति यदि स्वीकृतं भवेत्, तदापि स पदार्थो बौद्धशास्त्रेणेव भगवत्प्रणीतशास्त्रेणापि बाधित एव । न हि भगवत्प्रणीतशास्त्राणि “आत्मभिन्नं सर्वं क्षणिकं" इति स्वीकुर्वन्ति । तथा च तदवस्थैवाति-व्याप्तिरित्यत आहभगवत्प्रणीतशास्त्रे = जिनागम इत्यादि । तथा च लक्षणगतं यत् " भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानं" इति पदं, तत्र " भगवत्प्रणीतशास्त्रेण बाधितार्थ श्रद्धानं" इति समासो न कर्त्तव्यः, किन्तु “भगवत्प्रणीत्शास्त्रे बाधितार्थश्रद्धानं" इति सप्तमीतत्पुरुषसमासः समादरणीयः।
तथा च भगवत्प्रणीतशास्त्रे योऽर्थोऽस्ति, यः कदाग्रहादिना बाधितो भवति, तत्र श्रद्धानं आभिनिवेशिकमिथ्यात्वं इति फलितम् । 'सर्वं क्षणिकं' इति अर्थो भगवत्प्रणीतशास्त्रे नास्ति, किन्तु बौद्धशास्त्रेऽस्ति । ततश्च स बौद्धमतेन बाधितो वा जैनमतेन बाधितो वा तथापि स भगवत्प्रणीतशास्त्रे बाधितोऽर्थो न भवति, किन्तु बौद्धशास्त्रे बाधितोऽर्थो भवति, ततश्च तच्छ्रद्धानं नाभिनिवेशिकमिथ्यात्वं इति नातिव्याप्तिः । पूर्वं हि अस्माभिरपि टीकायां तृतीयातत्पुरुषसमास एव लिखितः, किन्तु पूर्वं तृतीयासमासकरणे हि एतादृशी पूर्वपक्षाशङ्का सम्भवतीति पूर्वं तृतीयातत्पुरुषसमासः कृत इति बोध्यम् ।
ચન્દ્ર : (પ્રશ્ન ઃ તો પણ અતિવ્યાપ્તિ આવશે જ, કેમકે ભિક્ષુએ બૌદ્ધમતવિરૂદ્ધ જે પદાર્થ કલ્પ્યો છે, તે પદાર્થ ભગવત્પ્રણીતશાસ્ત્ર વડે પણ બાધિત જ છે. એ ભિક્ષુએ કંઈ બૌદ્ધ મતનો ત્યાગ કરીને જૈનમત નથી સ્વીકાર્યો કે જેથી તેનો પદાર્થ જિનાગમને અનુસરનારો બને. દા.ત. કોઈક ભિક્ષુએ “સર્વ ક્ષણિકં” એ બૌદ્ધમતને અવગણીને “આત્મા વિના બધું ક્ષણિક છે” એવું સ્વીકાર્યું હોય, તો પણ તે પદાર્થ બૌદ્ધશાસ્ત્ર વડે જેમ બાધિત છે, તેમ જૈનશાસ્ત્ર વડે પણ બાધિત જ છે. જૈનશાસ્ત્રો “આત્મભિન્ન બધું ક્ષણિક’” આવું સ્વીકારતા નથી. અને એટલે પૂર્વની જેમ જ અતિવ્યાપ્તિ આવશે.)
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા ન ગુજરાતી વિવેચન સહિત ૧૮