________________
KAKKARXXXXXXXXXXXXXXXXXXRKKRAKAKKARXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
કે દોષ રહેતો નથી. અર્થાત આ પાઠનું વ્યાખ્યાન બહુલતાની અપેક્ષાએ કરી દેવું. એટલે છે કે “ઉન્માર્ગગામીઓ મોટા ભાગે નિયમા અનંતસંસારી થાય છે.” એમ હોવાથી
અનંતસંસારી નહિ થનારા અલ્પસંખ્યાવાળા ઉન્માર્ગગામીઓની વિવક્ષા કર્યા વિના ગચ્છાચારમાં ઉપરનું નિરૂપણ કરેલ છે.
આમ કોઈ દોષ રહેતો નથી. में यशो० न चेदेवं तदा 'वयमेव सृष्टिस्थित्यादिकारिणः' इत्याधुत्सूत्रभाषिणोऽनवच्छिन्न
मिथ्यात्वसन्तानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रजीवस्याप्यनन्तसंसारोत्पत्तिः * प्रसज्येत, * चन्द्र : ननु सम्प्रदायानुसारेण निह्नवानामपि संख्यातादिसंसारं न वयं मन्यामहे, न वा में * तदनुरोधेन गच्छाचारपाठस्य विशेषार्थमपि इच्छामः, कोऽस्माकं दोषः ? इति इत्यत आह*नो चेदेवं = यदि अस्मदुक्तं न स्वीक्रियेत, किन्तु 'तीर्थोच्छेदाभिप्रायवतां नियमेनानन्तः । - संसारः, तपागच्छीयानान्तु न' इति जडाग्रहः क्रियेत तदा = तर्हि "वयमेव = बलभद्रजीवदेवः स्वात्मानं दर्शयति । सृष्टिस्थित्यादिकारिणः = जगदुत्पत्तिस्थैर्यविनाशकर्तारः" में इत्याधुत्सूत्रभाषिणः = सूत्रे हि न जगदुत्पत्तिविनाशादिकर्ता इश्वरादिः कश्चित्पारमार्थिकः में स्वीक्रियते, ततश्चेदं निरूपणं स्पष्टमुत्सूत्रमेव । अनवच्छिन्नेत्यादि। श्रीनेमिनाथकालादद्य में यावदनवरतं प्रवृत्तो यो मिथ्यात्वसन्तानः = "इश्वरो जगदुत्पत्त्यादिकर्ता" इति - मिथ्यामतपरम्परा, तस्य परमहेतोः = मूलत्वेन प्रधानकारणस्य । अनेन विशेषणेन । बलभद्रजीवस्य महापापित्वं प्रदर्शितम् । यो हि उत्सूत्रभाषी अनवच्छिन्नमिथ्यात्वसन्तानहेतुर्भवति, , * स महापापी एव भवतीति । यतः स तादृशसन्तानपरमहेतुः, तत एव तीर्थोच्छेदाभिप्रायवतः । * = मिथ्याधर्मप्रवर्तनेन तात्त्विकजिनधर्मोच्छेदाभिप्रायवतः । श्रीकृष्णधर्मप्रवर्तने हि जिनधर्महानिः ।
स्फुटैव, एतच्च बलभद्रस्य सम्यग्दृष्टेरपि प्रसिद्धमेव, केवलं मोहमहिम्ना स उत्सूत्रप्ररूपणादिकं * कृतवान् । बलभद्रजीवस्यापि = न केवलं निह्नवानां यथाछन्दानां वा, किन्तु यस्य संख्यातः । * संसारो भवतामपि सम्मतः, तस्यापि इत्यपिशब्दार्थः । में यदि हि तीर्थोच्छेदाभिप्रायवतोऽवश्यमनन्तः संसारः, ततो बलभद्रस्यापि प्रतिपादितरीत्या तीर्थोच्छेदाभिप्रायवत्त्वात् तस्यापि अनन्तसंसारित्वमापद्येत, न चैतदिष्टं भवतामपि, तत "उन्मार्गगामिनामपि अध्यवसायानुसारेणैव संख्यातादिसंसारः" इत्यवश्यं अभ्युपेयम् ।
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxx
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • યશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત
૬૮