________________
HC परीक्षा
दोषः ?
चन्द्र : (२२) यद्युपकरणमित्यादि । (प्राचीनकालेऽयं विधिरस्ति, यदुत कदापि उपाश्रयः सर्वसाधुभिः शून्यो न क्रियते । जघन्यत एको मुनिस्तु अवश्यमुपाश्रये तिष्ठत्येव । अधुनाऽपि स विधिरवश्यं पालनीयोऽपि प्रमादादिवशात् न पाल्यतेऽपि इति खेदः । ) यथाछन्दस्तु प्राह-उपाश्रयं शून्यं किमर्थं न क्रियते ? शून्ये उपाश्रये चौर्यभयं भवेदिति चेत् तर्हि यदि वसतौ उपकरणं केनापि न ह्रियते इत्यवश्यं निर्णयो भवेत्, तर्हि तत्र शून्यवसतौ न कोऽपि दोष इति ।
ચન્દ્ર : (૨૨) (પ્રાચીન કાળમાં ઉપાશ્રય સંપૂર્ણ ખાલી ન રખાતો. ઓછામાં ઓછો એક સાધુ તો ઉપાશ્રયમાં રહેતો જ. આજે પણ આ વિધિ અવશ્ય પાળવી જોઈએ, છતાં પ્રમાદાદિના કારણે આ વિધિ નથી પણ પળાતી એ ખેદની વાત છે.) યથાછંદ કહે છે કે ઉપાશ્રય શા માટે શૂન્ય ન રખાય ? શૂન્ય ઉપાશ્રયમાં ચોરીનો ભય રહે એ જ માટે ને ? તો પછી જો ઉપાશ્રયમાં કોઈપણ વડે ઉપકરણ ચોરાવાના ન જ હોય, એવો પાકો નિર્ણય હોય તો શૂન્ય વસતિ રાખવામાં શું દોષ ?
यशो० (२३) अकप्पिये अत्ति, अकल्पिकः = अगीतार्थस्तद्विषये ब्रूते - अकल्पिकेनानीतमज्ञातोञ्छं किं न भुज्यते ? तस्याज्ञातोञ्छतया विशेषतः परिभोगार्हत्वात् । संभोएत्ति, संभोगे ब्रूते - सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति
।।६।।
=
चन्द्र : ( २३ ) अकल्पिकः अगीतार्थः न सम्यक् परिज्ञातं दशवैकालिकस्य पञ्चममध्ययनं येन स इति भावः । अज्ञातोञ्छं = श्रावकैरज्ञातं यद् उञ्छं = पिण्डः, तत् । यदि हि भिक्षाटनात् प्रागेव " हे अमुक श्रावकाः ! अहं भवतां गृहे भिक्षार्थं आगमिष्यामि " इति कथयित्वा तेषां गृहेषु उञ्छं गृह्यते, तर्हि तत् ज्ञातोञ्छं उच्यते । एवं श्रावकैः क्रियमाणां 'अस्मद्गृहे भिक्षार्थं आगच्छतु भवान्" इत्यादिरूपां प्रार्थनां श्रुत्वा " अद्य मध्याह्ने भवद्गृहे आगमिष्यामि" इति कथयित्वा तद्गृहादानीयमानः पिण्डोऽपि ज्ञातोञ्छमुच्यते । "अद्य मम गृहे साधवो भिक्षार्थमागमिष्यन्ति" इति निर्णयाभाववतः श्रावकस्य गृहादानीता भिक्षा अज्ञातोञ्छमुच्यते इति तु सङ्क्षेपार्थः ।
44
तस्य = अकल्पिकेनानीतस्य पिण्डस्य अज्ञातोञ्छतया विशेषतः ज्ञातोञ्छाद्यपेक्षयाऽधिकं મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૫૦