________________
(२३). हिंसादयः सन्ति वितर्कसझकाः प्रत्येकमेते खलु सप्तविंशतिः । कृतानुमोदास्पदकारिता हि ते क्रोधाच्च लोभाच्च तथैव मोहतः॥७१॥ नवेति भेदा मृदु-मध्य-तीत्रै दैत्रिभिः सन्ति यथोक्तसंख्याः । प्रत्येकमेते मृदुमध्यतीवास्त्रिधा पुनः स्युर्मुदुमध्यतीत्रैः ॥ ७२ ॥
युग्मम् ।
अनन्तमज्ञानमनन्तदुःखं फले अमीषां नितरां विभाव्ये । . अतः प्रकर्ष समुपेयुषां यत् फलं यमानामभिधीयते तत् ॥ ७३ ॥
दयाव्रतस्थैर्यवतः पुरस्ताद् निसर्गवैरा अपि देहभाजः । . मिथः प्रशाम्यन्ति तदेवमाद्ये व्रते फलं योगबुधा अवोचन ॥७॥
सत्यव्रते प्राप्तवति प्रतिष्ठां फलं प्रसिध्यत्यकृतेऽपि यत्ने । . स्यादस्य वाचा च फलं परस्याऽनुद्यच्छतोऽपीतिफलं द्वितीये॥७॥
अस्तेयनामव्रतनिश्चलत्वे भवन्ति रत्नानि न दुर्लभानि ।। प्रतिष्ठिते ब्रह्मणि वीर्यलाभोऽपरिग्रहे जन्मकथन्त्वबोधः ॥७६॥
योगदृष्टिः।
अष्टौ च योगस्य वदन्ति दृष्टीरष्टाभिर : सह ताः क्रमेण । सुश्रद्धया सङ्गत एव बोधो दृष्टिर्बभाषे प्रथमाऽत्र मित्रा ॥ ७७ ॥ मन्दं च मित्रादृशि दर्शनं स्यात् तृणानलोद्योत इहोपमानम् । न देवकार्यादिषु खेदवृत्ती रोषप्रसङ्गोऽपि च नापरत्र ॥ ७८ ॥
श्रीवीतरागे कुशलं मनोऽस्मै नमश्च पञ्चाङ्गतया प्रणामः । संशुद्धमेतत् किल योगबीजं गृह्णाति दृष्टाविह वर्तमानः ॥७९॥
न केवलं तत् खलु वीतरागे मुनिप्रवेकेष्वपि शुद्धरूपम् ।
विशुद्धाशयतश्च सेवाऽऽहारप्रदानादिबहुप्रकारैः ॥ ८०॥