________________
( १९) यतः परिक्लेशमुपैति जन्तुर्भाषेत सत्यामपि तां गिरं न। . पृष्टोऽपि जल्पेन्न कदापि मर्मावित् कर्कशे वैरनिबन्धनं च ॥२३॥ पुनन्ति ते स्वीयपदारविन्दैः पृथ्वीतलं सुन्दरभागधेयाः। मनोवचोभूघनचेष्टितानि स्पृशन्ति नासत्यविषं यकेंषाम् ॥२४॥ प्लुष्टोऽप्यहो! प्रज्वलिताग्निना द्रुः सान्द्रीभवेद, दुर्वचसान लोकः। वाक् सूनृता यं तनुते प्रमोदं न चन्दनं तं न च रत्नमाला ॥२५॥
विनश्वरी श्रीश्चपलाश्च भोगाः स्वाथै कबद्धाः स्वजनाः समग्राः । अतो मृषावाद उपासनीयः किमर्थ मेषा सुधियां मनीषा ॥ २६॥
अप्रत्ययं यद् वितनोति लोके दुर्वासनानां ददते निवासम् । दोषान् प्रसूते प्रबलान् क्रमेण तद् धर्मशीलो न वदत्यसत्यम् ॥२७॥
व्रतानि शेषाणि वदन्त्यहिंसासरोवरे पालिसमानि धीराः। सत्यस्य भङ्गे सति पालिभङ्गादनर्गलं तत् खलु विप्लवेत ॥२८॥ स्वमन्यदीयं हरताऽधमेन दत्तः स्वधर्मोपवने प्रदाहः । हृतं धनं स्वास्थ्यसुखं न सूते तस्मात् परिभ्रष्टमितस्ततोऽपि॥२९॥ दरिद्रता-दुर्भगता-शरीरच्छेदादिकं स्तेयफलं विलोक्य । ... तत्र प्रवृत्तिव्यसनं समुज्झेत् , युक्तो ग्रहीतुं न तृणोऽप्यपृष्टवा ॥३०॥ अद्यापि नो दृष्टमिदं श्रुतं वा यत् स्तेयमालम्बितवान् मनुष्यः । प्रभूतमानन्दमपेतशङ्कमभुक्त कोटीश्वरतां प्रपद्य ॥ ३१ ॥ यश्चौर्यपापद्रुमधिष्ठितोऽस्ति स्वास्थ्यं परं हारितवान् न, किन्तु। धृतिं च धैर्य च मतिं च सम्यग्जन्मान्तरं चापि स हीनभाग्यः॥३२॥ यो मार्यतेऽसौ क्षणमेक एव प्राप्नोति दुःखं द्रविणे हृते तु । । सपुत्रपौत्रोऽप्युपयाति यावजीवं विचिन्त्येति जहातु चौर्यम् ॥३३॥ स्तेयप्रवृत्तिः खलु नीचकार्यमस्तेयवृत्तिः पुरुषार्थमार्गः । : विशुद्धहस्तस्य च साधुवादः शाम्यन्त्यनाश्च परत्र नाकम् ॥३४॥