________________
(१८) शरीरिणां वल्लभवल्लभं चः प्राणाः स्वकीया इदमर्थमेव । साम्राज्यमप्याशु जनास्त्यजन्ति तत् किंविधं दानमलं वधाय? ॥११॥
अन्यस्य चेतःकमलस्य खेदहिमोदकेन ग्लपनेऽपि धीराः। हिंसावकाशं समुदीरयन्ति कथीकृतौ किं पुनरङ्गभाजाम् ? ॥ १२ ॥
प्रचण्डरोगाभिहतः पशुर्वा नरोऽथवा मारयितुं न युक्तः । केनोदितं प्राप्स्यति शं स मृत्वा नेतोऽपि च प्राप्स्यति दुःखमुग्रम्११३।
व्यापादनं हिंसकवृत्तिभाजामपि क्षमं नेत्यवधारणीयम् । लोके श्व-मार्जार-मयूर-गृध्रादयोऽङ्गिनः के न भवन्ति हिंस्राः॥१४॥ भयङ्करैर्वृश्चिक-दन्दशूकादिभिः परिक्लेशमधिश्रितोऽपि । न मारयेनापि च ताडयेत् तान् नह्यत्र कश्चित् फलसिद्धिलेशः॥१५॥
न पापहेतुः सुकृताय पापीच्छेदाय वा प्राणिवधः कदापि । कि जायते जीवितनाशहेतुर्हालाहलं जीवितसम्पदायै ? ॥१६॥
धर्मस्त्वहिंसाप्रभवः, कथं तद् हिंसात आविर्भविता कदापि ? । नह्यम्बुतः सम्प्रभवन्ति पाथोरुहाणि वन्हेजननं लभन्ते ॥ १७ ॥ इदं परं तेज इयं परा श्रीरिदं परं भाग्यमिदं महत्त्वम् । अशेषविश्वेश्वरनम्रमौलिनमर कृतं सत्यमहाव्रतं यत् ॥ १८ ॥
मृषोद्यते यत् फलमाकलय्य फलस्य खल्वस्य माऽऽगसश्च । अस्त्यन्तरं कीदृगवेक्षणीयं युक्ता हि कार्येषु तुलासमा धीः ॥१९॥ धनार्जनं न्यायपथेन सम्यगु द्योगतोऽशक्यतया क आह ? । आरम्भतो धीरतया तु सह्या आप द्यमानाः प्रतिकूलयोगाः ॥२०॥ शाम्यन्ति सर्वाण्यपि दूषणानि यथार्थवादे प्रविजृम्भमाणे । मृगेश्वरे क्रीडति वारणानां सम्भावनीयो हि कुतः प्रचारः॥२१॥ प्रयातु लक्ष्मीः स्वजना अरातीभवन्त्वकीतिः प्रसरीसरीतु । अद्यैव वा मृत्युरुपस्थितोऽस्तु वदेदसत्यं न तथापि धीरः ॥२२॥