________________
(४) सर्वे पराधीनतयैव संन्ति कः के स्वतन्त्रं प्रविधातुमीष्टे ?। स्वयं दरिद्रो हि परं विधातुमाढ्यं कथङ्कारमलम्भविष्णुः? ॥३३॥
स्नेहस्य निष्पादन आदितस्तु श्राम्यत्यविच्छेदकृते च पश्चात् । एवं दशायां परिभज्यमाने नेहे भृशं ताम्यति मानवोऽयम् ॥३४॥
यत्प्रेम्णि चित्तं रमते त्वदीयमन्यत्र चित्तं रमते तदीयम् । कथं वृथा मुह्यसि तत् परत्र ? नोकपक्षः प्रमदाय रागः ॥३५॥
अनन्यसाधारणभावतः कस्त्वद्गीचरं प्रेम दधाति लोके ? । एवं न चेत् क्वापि न तर्हि धीमन सेहो विधातुं भवतास्ति युक्तः।३६।।
यत्प्रेमजन्यं परितापमे षि तत्तापहानाभिमुखः स चेद न । तत् तादृशं प्रेम विषस्य कुण्डं मत्वा परित्यज्य कुरुष्व तोषम् ॥३७॥
स्नेहोनहि स्थायितया क्वचित् स्यात् स्याद यत्र तत्रापि भवेत् सुतीव्रम्। एकस्य मृत्यावितरस्य दुःखं दुःखास्पदं प्रेम ततोऽस्त्यवश्यम् ॥३८॥ सर्वो जनः स्वार्थनिमग्नचेताः स्वार्थश्च सम्बन्धविधानदक्षः। प्रेमप्रदीपस्य स एव तैलं स्वार्थ समाहे खलु कः कि.सीयः ? ॥३९॥
पितेति मातेति सहोदरेति मित्रेति कर्मस्फुरणीपजातम् । अवास्तवं खल्वपि मन्द मेधाः सम्बन्धमात्मीयतया प्रवेत्ति ॥४०॥ यस्यास्ति वित्तं प्रचुरं तदीया भवन्ति सर्वे मृदुलस्वभावम् । दारिद्र्य आप्ते तु सहोदरोऽपि प्रेमी वयस्योऽपि पराङ्मुखः स्यात् ।४१॥ न कोऽपि कस्यापि समस्ति लोके वृथैव मोहाद व्यथते जनोऽयम् । अध्यात्मदृष्टया परिचिन्तयेञ्चेद् निःसारमेतद निखिलं प्रतीयात्॥४२॥ महालयाऽऽरामसुलोचनादि यद बास्यदृष्टया परिदृश्यमानम्। भवेद् विमोहाय, तदेव वस्तु वैराग्यलक्ष्म्ये पुनरात्मदृष्टया ॥४३॥ - दुःखं विना किञ्चन दृश्यते न सुखस्य लेशोऽपि भवप्रपञ्चे। तथाप्यहो! वैषयिक प्रसंगं सुखस्वरूपं प्रविदन्ति मूढाः ॥ ४४ ॥