________________
( २ )
अध्यात्मभानौ प्रसरत्प्रतापे मनोनगर्यो परिभासमाने । कुतस्तमः ?, शुष्यति भोगपङ्कः, कषायचौरैः प्रपलाय्यते च ॥९॥
आनन्दपूर्णा च सुधां समाधिं वितन्वतेऽध्यात्मसुधाकराय । स्पृहा यदीये हृदि नाविरासीत् पशुर्नृरूपेण स मोघजन्मा ॥ १० ॥
योऽध्यात्मशस्त्रं वहते प्रतीक्ष्णं भवेद् भयं तस्य कुतस्त्रिलोक्याम् ? | तिरस्कृतो वा नितरां स्तुतो वा नाध्यात्म विद् रुष्यति मोदते च १.१ ॥
विधाय पापान्यतिभीषणानि येऽनन्तदुःखातिथयो बभूवुः । एतादृशानप्युददीधरद् यत् किं वर्ण्यतेऽध्यात्मरसायनं तत् १ || १२ ||
आत्मस्वरूपस्थित चित्तवृत्तेर्भवप्रपञ्चेषु तटस्थदृष्टेः । अध्यात्मराजेश्वर सुप्रसादे का न्यूनता सिद्धिषु लब्धिषु स्यात् ॥ १३॥
आत्माsस्ति कर्माsस्ति परो भवोऽस्ति मोक्षोऽस्ति तत्साधकहेतुरस्ति इत्येवमन्तःकरणे विधेया दृढप्रतीतिः सुविचारणाभिः ॥ १४ ॥
अर्वादृशां नैव परोक्षभावाः प्रत्यक्षधी गोचरतां लभन्ते । अतीन्द्रियज्ञानिकृतोपदेशैः सन्तो यथार्थ प्रतियन्ति किन्तु || १५ ||
शुद्धाऽऽत्मतत्त्वं प्रविधाय लक्ष्य ममूढदृष्ट्या क्रियते यदेव । अध्यात्ममेतत् प्रवदन्ति तज्झा नचाऽन्यदस्मादपवर्गबीजम् ||१६||
अध्यात्मभूमीभृत ऊर्ध्वभागे दायेन यद्यस्ति व आरुरुक्षा । महाशयास्तर्द्युपदिश्यमानं निबोधतेदं हृदयेन तावत् ॥ १७ ॥
महीयसा पुण्यसमुच्चयेन सम्पद्यते मर्त्यभवो विशिष्टः । सार्थक्यमेनं च नयन्ति सन्तः सज्ञान - सम्यक्चरिते प्रपद्य ||१८||
प्राप्तान्यनन्तानि वधूंष्यनेन जीवेन मोहेन वशीकृतेन । मोहस्य सत्त्वे खलु देहलाभो देहे च लब्धे पुनरुदुःखम् ||१९||
जन्मक्षणे वर्धकसंगमे च पञ्चत्वकाले नियतं हि दुःखम् । रोगादिजातानि पुनः कियन्ति दुःखानि मेयानि भवाम्बुराशौ ? २०॥