________________
RA
M
Eना सामायारी परिभवसहिष्णू छन्दना-वैयावृत्यादिकार्यैः सह नान्तरीयक: अविनाभावी, यः स्वस्य परिभवः, तस्य व सहिष्णू । वैयावृत्यादिषु प्रायः स्खलनाः संभवन्त्येव । यथा ग्लानस्य यत्प्रयोग्यं, तन्नानीतं किन्तु अप्रायोग्यमानीतं । यद्वा प्रायोग्यमपि अधिकमानीतं । यद्वा ग्लानप्रायोग्यगवेषणायां प्रभूता वेला सञ्जाता, ततश्च ग्लानस्यासमाधिर्भवति । यद्वा ग्लानसंबंधि किञ्चित्कार्यं विस्मृतं । यद्वा स्खलनाऽभावेऽपि ग्लानादिना केनचित् एवमेव वैयावृत्यकरस्य परिभवः कृतः यथा “न त्वं सुष्ठ वैयावृत्यं करोषि" इत्यादि । ततश्च । एतादृक्स्खलानायां यः ग्लानादिना पराभवः क्रियते, स येन सोढुं शक्यः स एव छन्दनासामाचारीपालने समर्थो 8 भवति । अन्यस्तु “एकं तावदहं नि:स्पृहतया वैयावृत्यं करोमि । अपरं एते साधवः मम प्रशंसां तु दूरे, किन्तु निन्दां कुर्वन्ति । अधुना न करिष्याम्यहं वैयावृत्यम्" इत्यादि चिन्तयित्वा वैयावृत्यादिकमेव परित्यजेत् । ____ अत्र यथा छन्दकस्य एतौ द्वौ गुणौ युक्तौ, तथैव छन्द्यस्याप्येतौ द्वौ गुणौ अपेक्षणीयौ । वैयावृत्यकरस्य : स्खलानायां सत्यां यः छन्द्यः मुखे खेदभावं आविर्भावयति । छन्दकेनानीतस्य वस्तुनोऽल्पत्वे सति "कथं बहु नानीतं, तव हृदयं संकुचितमस्ति" इत्यादि ब्रूते तदा वैयावृत्यकराणां शुभभावोऽपि अपगच्छेत् । तस्मात् । छन्द्योऽपि गंभीरो अपेक्षणीयः । छन्दकस्य स्खलानायां सत्यामपि यः छन्द्यः स्वमनोगतभावं बहिर्न प्रकटयति,
उचितकाले च छन्दकं तत्कृतां स्खलनां मधुरभाषया दर्शयति, स गंभीर: छन्द्यः प्रकृतसामाचारीयोग्यो भवतीति। 2. एवं छन्दकोऽपि कदाचित् तं ग्लानादिकस्य छन्द्यस्य पराभवं करोति यथा “किं शीघ्रं प्रगुणो न भवसि?
तव तु ग्लानत्वमेव प्रियं, यतः तत्र वैयावृत्यं प्रायोग्यद्रव्याणि च प्राप्यन्ते । न चैतयुक्तं । अस्माकमपि चिन्ता भवता करणीया" इत्यादि । यद्वा वैयावृत्यमेव ते सम्यग् न कुर्वन्ति । तत्र प्रमादं भजन्ते । अयमपि तैः कृतः। ग्लानस्य पराभव एव । एतादृश्यां अवस्थायां तेन छन्द्येन स पराभवः सोढव्य एव ।
तथाता=गम्भीरधीरता । पंचाशकावयवस्यार्थस्त्वयम् द्वयोरपि छन्दकछन्द्ययोः अतिगंभीरयोः धीरयोः तदिष्टफलं भवति । प्रबन्धेन=विस्तरेण पूर्वाचार्यैः श्रीहरिभद्रसूरिप्रभृतिभिः । स्वायतीकृता=आत्मसात्कृता, सम्यक्पालिता भवतीति यावत् ॥६१।। ___महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे छन्दनासामाचारीटीकायाः विषमपदव्याख्या रहस्यप्रकटनं च। संपूर्णे।
ટીકાર્થ : ૨૯મી ગાથામાં છંદકના અને ૬૦મી ગાથામાં છત્ત્વના ગુણો અને એના દ્વારા થતો લાભ બતાવ્યો. છે એટલે એ બતાવેલી પદ્ધતિ પ્રમાણે કહેલા ગુણોવાળા છંદક અને છન્યને ગંભીરતા અને ધીરતા ધારણ કરવાનું છે છે કહેવાયેલું છે. જેના મનનો અભિપ્રાય બીજા વડે જાણી ન શકાય એ ગંભીર કહેવાય. અને કાર્ય કરવું
થનાર (નાન્તરીયક) એવા પોતાના સંબંધી પરાભવ-અપમાન-નિંદાદિને સહન કરવાની શક્તિવાળો હોય તે & ધીર કહેવાય. આ ગંભીર અને ધીરમાં જે ગંભીરતા અને ધીરતારૂપી ભાવ છે, તે આ બે છત્ત્વ-છંદકમાં હોવો :
જોઈએ. “અતિગંભીર અને ધીર એવા આ બેયને તે છંદના=વૈયાવચ્ચ ઇષ્ટફળ આપનારી છે” આ વાત ઘણા હું શાસ્ત્રપાઠો દ્વારા પૂર્વાચાર્યોએ કરી છે. ગાથામાં પૂર્વાચાર્યશબ્દ લખેલો નથી. પણ એ સમજી લેવાનો છે.
આવા ગંભીર અને ધીર એવા છંદક અને છન્દ વડે આ છંદનાસામાચારી સ્વાધીન=આત્મસાત સિદ્ધ કરાયેલી શું થાય છે. આ બે ગુણો ન હોય તો ઉપર બતાવેલા એવા પણ છંદક-છબ્ધ છંદનાને સિદ્ધ ન કરી શકે ll૧TI
છંદના સામાચારીનું વિવેચન સંપૂર્ણ
GROGERRRRRIERREGURREESIGGESGUGGGESTEGOGGER
SSSSSSSSSSSSSSSSS
8 મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૬૯ છે MeeROSURSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSETORESU8000058888888888888888888