________________
EEEEEEEEEEEE
HEROIRAINRITERRIERRITATERIORAINM निमंत्रen सामायारी l किञ्चिदपि शुभमपि कार्यं श्रेयोभूतमिति गुर्वाज्ञा सर्वेभ्योऽपि गरियसी । गुरुश्चात्र संविग्नगीतार्थ एवापेक्षणीयः ।। ____ शिष्यः प्रश्नयति → साधुनिमन्त्रणाकरणार्थ यदा गुरोरनुज्ञां गृह्णन्गुरुमापृच्छेत् गुरुश्च तथाविधकारणवशात्साधुं ।
प्रतिषिध्येद् यथा - नाद्य त्वया निमन्त्रणा कर्तव्या, किन्तु स्वस्यैवाशनादिकमानेतव्यम् । यद्वा त्वं १ विहारपरिश्रान्तोऽसि, तस्मादन्ये साधव एव भवदशनादिकमानेष्यन्ति, न त्वया गन्तव्यम्-इत्यादि । तदा तु स साधुर्वैयावृत्यं तावन्नैव करोति । किन्तु गुरोरनुज्ञाया अभावानिमन्त्रणामपि न करोति । ततश्च किं तदा तस्य निमन्त्रणाया फलं भवति ? न वा? निमन्त्रणां विना निमन्त्रणासामाचार्याः फलं नैव भवेदिति तत्र तस्य गुरुं १ प्रति पृच्छा निष्फलैवेति ममाभिप्रायः - इति । ___ गुरुस्तु प्रत्युत्तरयति – गुरुणा निषेधे क्रियमाणे स शिष्यो यद्यपि निमन्त्रणां वैयावृत्यञ्च न करोति, तथापि र यस्तेन गुरुपृच्छारूपो विनयः कृतः, तेन तन्मनसि शुभभावोत्कर्षो जायते । ततश्च बाह्यनिमन्त्रणामकुर्वाणोऽपि
स भावनिमन्त्रणापालकस्तु भवत्येवेति भावनिमन्त्रणायास्तत्र सत्त्वात्तस्यावश्यं फलसिद्धिर्भवति । यदि च गुरुमनापृच्छ्य साधून्प्रति द्रव्यनिमन्त्रणां करोति, तदा तु गुर्वाज्ञाभङ्गरुपो महान्दोषस्तावद् भवत्येव । यदि च । साधवस्तदा निषेधं कुर्युः, तदा तस्य स्वल्पो भावोऽपि संकोचमेव प्राप्नुयादिति न तत्र तस्य कोऽपि लाभो । भवतीति यथाशक्ति योग्यकाले गुरोरनुज्ञां गृहीत्वा स्वाध्यायादियोगरतैरपि साधूभिनिमन्त्रणासामाचारी परिपालनीयेति सारः।
नवमी निमन्त्रणासामाचारी समाप्ता
181500000586880030000308383880030030038888888300143333333333333GGEGGERGER0E86031380030038086038Gokarnata
HIRESTSSSSSTERESSNEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEESERIESSERESESSESSERIES
.
.
.
.
.
.
.
.
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८१ Sc80000EETROOTEREScareerEEEEEEEEEEEEEEEEEEEEEEEEEES