________________
msamitab
R EADER
संपE सामायारी न चन्द्र. - एवमेव भेदाः यथा यावत्कथिकयोः आगन्तुकवास्तव्योः मध्ये भेदाः प्रतिपादिताः, तथैव यावत्कथिकवास्तव्येत्वरकथिकागन्तुकयोः मध्येऽपि भेदाः प्रतिपादनीयाः। विशेषस्तु इत्यादि केवलमयमेव । विशेषः यदुत पूर्वं वास्तव्यस्य आचार्यवैयावृत्यं परित्यज्योपाध्यायवैयावृत्यकरणेऽनिच्छायां आगन्तुकः। १ परित्यज्यते । अत्र तु वास्तव्यस्यानिच्छायामपि तं प्रीत्या बोधयित्वा किञ्चित्कालं उपाध्यायवैयावृत्यं कार्यते । तत्र बोधदानं त्वेवं कर्तव्यं । यथा "हे वास्तव्य ! त्वं तु यावज्जीवं मद् वैयावृत्यं करिष्यस्येव । एष तु। आगन्तुक: मासद्विमासकालं यावदेव वैयावृत्यं कर्तुमीहते । ततः परं पुनरपि त्वमेव करिष्यसि । तस्मादेतदुपरि । अनुग्रहं कृत्वा ददस्वानुज्ञां तस्मै मवैयावृत्यकरणस्य" इत्यादि । विश्राम्यते= नाचार्यस्य न वोपाध्यायादेः वा। वैयावृत्यं कार्यते, किन्तु किञ्चित्कालं यावत् वैयावृत्यकरणरहित एव स्थाप्यते । अवधिकालं यावद्=अत्र। आगन्तुको यावत्कथिकोऽस्ति । यावत्कथिकश्चाचार्यस्यातीवोपयोगी भवति । वास्तव्यस्तु एवमपि कालान्तरे । गमिष्यति । वैयावृत्यं च तेन कियत्कालं यावत्कृतमेवासीत् । तस्मात्तदा वास्तव्यः तस्य वैयावृत्यकरणकालमर्यादां यावत् उपाध्यायस्य अन्यस्य वा वैयावृत्यं कार्यत इति । अथ द्वावपीत्वरौ इत्यादि। अत्र च न वास्तव्यस्य न वा आगन्तुकस्य ग्रहणे त्यागे वा कोऽपि नियमः, यथायोगं कुर्यादाचार्यः इति बोध्यम्।
अत्र शिष्योपकाराय किञ्चिविस्तरतो निरूप्यतेऽयं विधिः । वास्तव्यो यावत्कथिकः, आगन्तुकोऽपि यावत्कथिक इति प्रथमो भङ्गः, वास्तव्यो यावत्कथिकः, आगन्तुकस्तु इत्वरकथिक इति द्वितीयो भङ्गः,
वास्तव्य इत्वरकथिकः, आगन्तुकस्तु यावत्कथिक इति तृतीयो भङ्गः, वास्तव्य इत्वरकथिकः आगन्तुकश्चापि का इत्वरकथिक इति चतुर्थो भङ्गः ।
तत्र प्रथमभङ्गेऽयं विधिः । उभययोः मध्ये यः लब्धिमान् स आचार्यस्य वैयावृत्यं कार्यते, अन्यस्तु अन्यस्मै दीयते । यदि द्वावपि लब्धिमन्तौ । तदा वास्तव्य आचार्यवैयावृत्यं आगन्तुकश्च उपाध्यायादिवैयावृत्यं कार्यते । यदि च आगन्तुक आचार्यस्यैव वैयावृत्यं कर्तुमिच्छति । तर्हि वास्तव्यः उपाध्यायादिवैयावृत्यं कार्यते, आगन्तुकश्च आचार्यवैयावृत्यं कार्यते । यदि वास्तव्योऽपि आचार्यस्यैव वैयावृत्यं कर्तुमिच्छेत्, तर्हि स एवात्र मुख्य इति स आचार्यवैयावृत्यं कार्यते । आगन्तुकस्तु उपाध्यायादीनां वैयावृत्यं कर्तुमनिच्छन्परित्यज्यते ।
द्वितीयभङ्गेऽयं विधिः → उभययोः मध्ये यः लब्धिमान्, स आचार्यस्य वैयावृत्यं कार्यते । इतरस्तु उपाध्यायादिवैयावृत्यं । यदि च द्वावपि लब्धिमन्तौ । तदा वास्तव्य आचार्यवैयावृत्यं आगन्तुकस्तु उपाध्यायादिवैयावृत्यं कार्यते । यदि आगन्तुक आचार्यस्यैव वैयावृत्यमीहेत, तर्हि वास्तव्य उपाध्यायवैयावृत्यं कार्यते, आगन्तुकस्तु आचार्यस्य । यदि च वास्तव्य उपाध्यायादिवैयावृत्यं कर्तुं नेच्छेत् तर्हि आचार्यस्तं मधुरभाषया प्रज्ञाप्यापि तं आगन्तुकवैयावत्यकरणावधिकालं यावत विश्रामं कारयेत् । यदि च आचार्येण प्रज्ञाप्यमानोऽपि वास्तव्यः न उपाध्यायादिवैयावृत्यं न वा विश्रामं कर्तुं इच्छेत्, किन्तु आचार्यस्यैव वैयावृत्यं । कर्तृमिच्छेत्, तर्हि स एव तत्र प्रमाणं । आगन्तुक उपाध्यायादिवैयावृत्यं कर्तुमनिच्छन् विसृज्यते । ____ तृतीयभङ्गेऽयं विधिः → द्वयोः मध्ये यो लब्धिमान्, स आचार्यस्य, इतरस्तु उपाध्यायादीनां वैयावृत्यं कार्यते । यदि च द्वावपि लब्धिमन्तौ । तर्हि वास्तव्यः तत्कालावधिं यावत् उपाध्यायादिवैयावृत्यं कार्यते,
आगन्तुकस्तु आचार्यवैयावृत्यं । यदि च वास्तव्यः वैयावृत्यकरणावधिकालं यावत् आचार्यस्यैव रवैयावृत्यमिच्छेत्, तर्हि तावत्कालं आगन्तुकः उपाध्यायादिवैयावृत्यं कार्यते । अथ आगन्तुकः।
assmascc000500000588REasssmRREEGGRamesGGUGGGEEEEEGGERSIGGGREEGREE
SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SEREEEEE
SEEEE
CEEEEEEEEEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૫