________________
Beeeee મિચ્છાકાર સામાચારી
ટીકાર્થ : આ પ્રાકૃતપ્રયોગના ત્રણેય પ્રકારના અર્થના જ્ઞાનપૂર્વક આ પ્રાકૃતપ્રયોગ કરાય છે. એટલે આ જ્ઞાન હોવાના લીધે જિનાજ્ઞાની આરાધનાની પ્રાપ્તિ થાય છે.
ते या प्रमाणे - मिच्छा एवं... जे पाठ द्वारा शास्त्रझरोखे सापाने खाज्ञा उरी छे } “खा (पाप) મિથ્યા’ એમ જાણીને ‘મિચ્છા મિ દુક્કડં’ આપવું. પણ એના જ્ઞાન વિના એમને એમ ન આપવું.” હવે આ પ્રાકૃત પ્રયોગ એ પ્રમાણેના જ્ઞાનપૂર્વક થાય છે. એટલે જ્ઞાનપૂર્વક પ્રયોગ કરવાની આજ્ઞાનું અહીં પાલન કરાયેલું થાય છે. આજ્ઞાપાલન તો ઘણી મોટી વસ્તુ છે.
यशो. अत्रैतदा मम दुष्कृतमित्यस्य परामर्शेन वाक्यार्थज्ञानपूर्वकत्वाभिधानस्याक्षरार्थज्ञानपूर्वकत्वोपलक्षणत्वात् (? त्वं ), अन्यथाऽग्रे तदभिधानस्यानतिप्रयोजनत्वप्रसङ्गात् ।
चन्द्र. - ननु यो यः प्रयोगः विशिष्टज्ञानपूर्वकः स स प्रयोगः निर्जराहेतुः प्रयोगान्तराद् विशिष्टश्च भवति । अत्र ‘मिच्छा एयं ति वियाणिऊण' इत्यादि जिनाज्ञा । तत्र " मिच्छा मि दुक्कडं " इति अस्य योऽर्थः, तज्ज्ञानपूर्वकः प्रयोगः कर्तव्य इति तात्पर्यम् । तादृशप्रयोगस्यार्थस्तु 'मम दुष्कृतं मिथ्या भवतु' इत्येव । तज्ज्ञानं तु प्रयोगान्तरेषु अपि संभवति । ततश्च प्रयोगान्तराण्यपि विशिष्टज्ञानपूर्वकाणि भविष्यन्ति । ततश्च तेऽपि निर्जराहेतवः भविष्यन्त्येव । तथा ते प्रयोगा अपि 'मिच्छा मि दुक्कडं' इति ज्ञात्वैव क्रियन्ते इति तत्रापि विध्यर्थपरिपालनं भवत्येव । ततश्च कोऽयं कदाग्रहो भवतां यदुत "मिच्छा मि दुक्कडं" इत्येव प्रयोगः विशिष्टज्ञानपूर्वको भवति । तत्रैव च विध्यर्थपालनं भवति" इत्यादि । किञ्च 'मिच्छा एयं' इत्यत्र 'एयं' इति पदं "कस्यार्थस्य वाचकम्" इति अपि वक्तव्यम् ।
अतः आह अत्रैतदा मम दुष्कृतमित्यादि । अत्र = प्रतिपादिते 'मिच्छा एयं' इत्यादि शास्त्रपाठे एतदा = एतद् इति पदेन मम दुष्कृतमित्स्य परामर्शेन = 'मम दुष्कृतम्' इत्यस्य बोधेन वाक्यार्थज्ञानपूर्वकत्वाभिधानस्य = मिच्छा मि दुक्कडं इति यत् वाक्यं तदर्थज्ञानपूर्वकत्वस्याभिधानमत्र कृतं भवति । तादृशाभिधानस्य अक्षरार्थज्ञानपूर्वकत्वोपलक्षणत्वात् - 'मि' इत्यादि अक्षराणां ये अर्थाः । तज्ज्ञानपूर्वक एव प्रयोगः कर्तव्यः इति अस्यापि ज्ञापकत्वात् ।
इदमत्र हृदयम् → 'मिच्छा एयं वियाणिऊण मिच्छुक्कडं देयम्' इति या जिनाज्ञा । तत्र 'एयं' इति पदं मि दुक्कडं' इति अस्य वाचकं अस्ति । एवं च "मिच्छा मि दुक्कडं" इति प्रयोगः 'मिच्छामि दुक्कडं' इति यद् वाक्यं, तदर्थज्ञानपूर्वकः कर्तव्यः इति जिनाज्ञायाः भावार्थः । अत्रैव पूर्वपक्ष: समुत्तिष्ठति यदुत अत्र वाक्यार्थज्ञानपूर्वकः प्रयोगः कर्तव्यः इति कथितं । तत्र वाक्यार्थज्ञानपूर्वकत्वमेवावश्यकं । प्रयोगस्तु कश्चिदपि क्रियते न तत्र बाधा । ततश्च प्रयोगान्तराण्यपि वाक्यार्थज्ञानपूर्वकाणीति तेऽपि जिनाज्ञामान्या एव भवन्ति । न हि अत्र → ‘मि' इति ‘च्छा' इति 'मि' इत्यादि अक्षरार्थज्ञानपूर्वकः प्रयोगः कर्तव्यः ← इति निगदितं । यदि तदुक्तं भवेत् तर्हि तादृशाक्षरार्थज्ञानं तु 'मिच्छामि दुक्कडं' इति प्रयोगे एव स्यात् । यतः तस्मिन्नेव प्रयोगे ते अक्षराः सन्ति। न तु अन्यस्मिन् प्रयोगान्तरे । किन्तु तत्तु नोक्तमेव । ततश्च वाक्यार्थज्ञानपूर्वकः कश्चिदपि प्रयोगः
esc3002
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૮૯