SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ઈચ્છાકાર સામાચારી → एकः साधुः स्वकार्यं परेण कारयितुमिच्छन् प्रथमं रात्निकस्यानुज्ञां गृह्णाति । यथा “अहं मत्कार्यं अन्यस्मै समर्पयामि न वा ?" इत्यादि । ततश्च रात्निको यदि आज्ञां ददाति, तर्हि तदाज्ञया स साधुः द्वितीयं साधुं कार्यार्थं प्रार्थनां करोति । तादृशकार्यप्रार्थनं दूरतः दृष्ट्वा तृतीयः साधुः निर्जरार्थं स्वयं इच्छाकारेण तत्कार्यं करोतीति स्वयं परकार्यकरणे एष एकः प्रकारः प्रतिपादितः । अयं च द्वितीयप्रकारः स्वयं कुर्वतः इत्यादि । कश्चित साधुः स्वकीयं वस्त्रप्रक्षालनादिकं करोति । किन्तु तस्मिन् नूतने साधौ कार्यकरणस्य कौशलं नास्ति । ततश्च तत्कार्यं विनश्यत् दृष्ट्वा अन्यः साधुः निर्जरार्थं तं प्रति तत्कार्यकरणस्य प्रार्थनां करोति । इदमुपलक्षणम् । एवं तृतीयप्रकारोऽपि संभवति । तथा हि साधुः स्वकीयकार्यकरणे कुशल एवास्ति । न तस्य अन्यसहायापेक्षा । तथापि कस्यचित् साधोः निर्जरार्थिनः स्वयमेव भावोल्लासो भवति यथा "अहं अस्य साधोः कार्ये सहायं कृत्वा निर्जरां प्राप्नुयाम्" इति । ततश्च निर्जरार्थं स परं प्रति प्रार्थनां करोति । 1 एतदेव आवश्यक निर्युक्तिगाथाभ्यां दर्शयति अहवा वि विणासंतं इत्यादि । अयं भावः । कारणे स रत्नाधिकः स्वकार्यमन्यस्मै समपर्यति, तत्र चेच्छाकारं करोतीति एकः प्रकारः प्रतिपादितः । अधुना प्रकारान्तरेणेच्छाकारसंभवं ' अथवाऽपि' इत्यादिना दर्शयति । अकुशलतया स्वकार्यं विनाशयन्तं साधुं दृष्ट्वा अन्यः साधुः तं साधुं कथयेत् । यथा “अहं तवैतत्कार्यं इच्छाकारेण करोमि " इति । अथवा यद्यपि स कुशलः स्वकार्यकरणे । तथापि तस्य अन्यद् महत्कार्यं समापतितं । तद् दृष्ट्वाऽपि अन्यः साधुः तत्कार्यं स्वयमेवेच्छाकारेण कुरुते । यदि वा असमर्थः एकः साधुः द्वितीयं साधुं स्वकार्यकरणार्थं प्रार्थनां कुरुते । तं दृष्ट्वा निर्जरार्थी तृतीयः साधुः स्वयमेव तत्कार्यकरणार्थं उपस्थितो भवति इति । एतच्च मलयगिरिटीकानुसारतो व्याख्यातम् । अत्र उभयस्मिन् स्थाने निर्जरार्थी साधुः स्वयमेव परकार्यकरणे उल्लासवान् भवतीति प्रदर्शितम् । अत्र द्वितीयगाथायाः उत्तरार्धस्त्वयम् तत्थ वि सो इच्छं से करेइ मज्जायमूलियं । ← यदा अन्यः मुनिः परं प्रति अभ्यर्थनां कुर्वन्तं साधुं दृष्ट्वा स्वयमेव तत्र गत्वा तं कथयति, यथा " भवत्कार्यं अहं इच्छाकारेण करोमि । मह्यं समर्पय" इति । तदाऽपि स अभ्यर्थकः साधुः मर्यादामूलकं इच्छाकारं करोति इति । एष उत्तरार्धः स्पष्टं मनसि स्थिरीकर्तव्यः । तदनुसारेणैव अनन्तरमेव वक्ष्यमाणः पूर्वपक्षः स्पष्टं ज्ञास्यते ॥१३॥ આ બીજાનું કામ કરવા રૂપી વૈયાવચ્ચ બે રીતે થઈ શકે. કોઈ સાધુ રત્નાધિકની રજા લઈને બીજા સાધુને પોતાનું કામ કરી આપવાની પ્રાર્થના કરતો હોય. અને એ પ્રાર્થનાને જોઈને નિર્જરા મેળવવા માટે ત્રીજો જ કોઈ સાધુ એ કામ કરે. અથવા કોઈક સાધુ પોતાનું કામ જાતે જ કરે છે. પરંતુ કાર્ય કરવાની કુશળતા ન હોવાથી એનું કામ બગડી જતું હોય તો એ જોઈને પણ નિર્જરાને માટે બીજો સાધુ એ કામ કરે. (पंडितनो अन्वय या प्रभारी रात्त्रिकाज्ञया परं प्रति द्वितीयं साधुं प्रति परस्य प्रथमसाधोः कार्यप्रार्थनं दृष्ट्वा निर्जरार्थं, स्वयं कुर्वतः परस्याकौशलेन कार्यनाशं च दृष्ट्वा निर्जरार्थं तृतीयः साधुः तत्करणं कुर्यात् ।) મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - चन्द्रशेजरीया टीका + विवेशन सहित ५०
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy