________________
BRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRESTERRIERRRRRRRRRRRRRRRRRREGESTERRRRRRREER
IELITEREm
manasam WISIR साभायारी यशो. - न चात्ममात्रप्रतिबन्धविश्रान्तस्य श्रामण्यस्य परप्रतिबद्धवैयावृत्त्यकरणमप्यपवादाय,
चन्द्र. - पूर्वपक्षः प्राह न चात्ममात्रप्रतिबन्धविश्रान्तस्य श्रामण्यस्य आत्मन्येव लीनतास्वरुपेण । निश्चितस्य श्रामण्यस्य । "श्रामण्यं किं ?" इति चिन्तायां कश्चिदाह वैयावृत्यमेव श्रामण्यं । अपरस्तु स्वाध्याय 8 एव श्रामण्यं, अन्यस्तु निर्दोषा गोचरी एव श्रामण्यं, इतरस्तु अष्टप्रवचनमातृपालनमेव श्रामण्यम् इत्यादि । एवञ्च
श्रामण्यं वैयावृत्यस्वाध्यायनिर्दोषगोचर्यादिषु प्रभूतेषु स्थानेषु भ्रान्तं सत् कुत्रापि न स्थितं । अन्ते एष। निश्चयोऽभवत् यदुत आत्ममात्रे प्रतिबन्धः अन्तर्मुखताऽपरनामकः एव चारित्रम् । ततश्च प्रभूतेषु स्थानेषु भ्रान्त्वा श्रान्तं श्रामण्यं आत्ममात्रप्रतिबन्धे विश्रान्तमभवत् । तादृशश्रामण्यस्य उत्सर्गमार्गरूपस्य परप्रतिबद्धवैयावृत्यकरणमप्यपवादाय=आत्मव्यतिरिक्ते रत्नाधिकादिके प्रतिबद्धं यत् वैयावृत्यं, तस्य करणं श्रामण्यरूपोत्सर्गस्यापवादरूपं भवतीति । पुष्टालम्बने वैयावृत्यकरणाय आत्ममात्रप्रतिबन्धं त्यजन् साधुः। र उत्सर्गमार्गं त्यक्त्वा तत्सापेक्षमपवादमाश्रयतीति हार्दम् ।
શિષ્ય : સાધુપણું એ ઉત્સર્ગમાર્ગ છે. અને પોતાના આત્મામાં જ માત્ર લીન બની જવું એ જ સાધુપણું છે
સાધુપણું શું ? એની ઘણી બધી વિચારણા બાદ આત્મમાત્રપ્રતિબંધમાં જ સાધુપણું માનવામાં આવ્યું છે. આ છે હવે બીજાના કાર્યો કરી આપવા એ વૈયાવચ્ચનું કામ કહેવાય. અને એ વૈયાવચ્ચ તો બીજા સાથે જોડાયેલી જ છે. આત્મમાત્રપ્રતિબંધ એ ઉત્સર્ગ માર્ગ છે. અને વૈયાવચ્ચમાં તો પરમાં પ્રતિબંધ=પર સાથે સંબંધ કરાય છે. છે એટલે આ વૈયાવચ્ચ ઉત્સર્ગમાર્ગ તો નથી જ. પણ ઉત્સર્ગમાર્ગને સાપેક્ષ એવો અપવાદ જ માનવો પડે. ३ यशो. - ज्ञानाचारस्येव वीर्याचारस्यापि चारित्रमूलत्वेन तन्निबन्धनवैयावृत्त्यस्य
परप्रतिबन्धमात्रेणापवादाभावादपकर्षापवादयोरेकार्थत्वे आशैलेश्यास्तत्प्रसङ्गादित्यन्यत्र विस्तरः ।
EEEEEEER
चन्द्र. - ग्रन्थकारस्तु तादृग्वैयावृत्यमपि उत्सर्ग एवेति प्रतिपादयति ज्ञानाचारस्येवेत्यादि । श्रामण्यं नाम, चारित्रं, तच्चात्ममात्रप्रतिबन्धरूपं । तन्मूलं ज्ञानाचारः यथा भवता उत्सर्गः मन्यते, तथैव तस्यैव चारित्रस्य मूलं वीर्याचारः भवता उत्सर्गः एव मन्तव्यः । यतश्चैवं वीर्याचार: उत्सर्गः । ततः तादृशवीर्याचारस्य निबन्धनं=8 कारणं यत् वैयावृत्यं, तदपि उत्सर्ग एव भवति । एवञ्च वैयावृत्यस्य उत्सर्गत्वं सिद्धम् । एवं सति यद्यपि तस्मिन् वैयावृत्ये परप्रतिबन्धो दृश्यते, तथापि न तावन्मात्रेण तद् वैयावृत्यमपवादो भवति । किन्तु उत्सर्ग एव तत् । न हि वैयावृत्ये सर्वथा परप्रतिबन्धो भवति । किन्तु तत्र आत्मप्रतिबन्धोऽपि भवत्येव । ततश्च न तत्र श्रामण्यं बाधितं भवतीति । ____ ननु ज्ञानाचारे सर्वथा आत्ममात्रप्रतिबन्धो विद्यते । वैयावृत्ये तु आत्मप्रतिबन्धः परप्रतिबन्धश्च विद्यते । ततश्च ज्ञानाचार: वैयावृत्यसकाशादुत्कर्षवान् । वैयावृत्ये तु ज्ञानाचारापेक्षयाऽपकर्षः वर्तते । यश्च उत्कर्षः सह उत्सर्गः । यस्तु अपकर्षः स अपवादः । ततश्च ज्ञानाचारे उत्सर्गः, वैयावृत्ये च अपवादः वर्तते इति वैयावृत्ये ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૫૮ RSSROSSSSSSSSSSSSSSSSSSETTERRIERRESERTISHESISTERESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEB