________________
EmasTRETURIERREER1000000
muTERIORRE
Iार सामायारी र म तथा इत्येतेषां श्रद्धार्थ-व्यलीकार्थाऽवैतथ्यार्थानां शब्दानां कारः करणं यथास्वविषयं से प्रयोग इच्छा-मिथ्या-तथाकारः । अथवाऽवयवे समुदायोपचाराद् 'इच्छा' इति 'इच्छाकारः' 'मिथ्या' इति च मिथ्यादुष्कृतम्, तथाशब्देन च 'तथेति' इत्येवंभूतं । पदमभिगृह्यते, ततश्चैतेषां कारः कारणमिति समास इति ।" युक्तं चैतदुत्तराध्ययनादिष्वेतेभ्योऽन्यत्र कारशब्दप्रयोगाऽदर्शनादित्याहुः ।
चन्द्र. - अत्रैवार्थे अभिप्रायान्तरमाह-परे तु इत्यादि । द्वन्द्वोतरश्रूयमाणस्य="इच्छा च मिच्छा च तथा च इति इच्छामिच्छातथाः" इत्येवंरूपः यः द्वन्द्वसमासः तदुत्तरं श्रूयमाणस्य । एतेष्वेव इच्छामिच्छातथाशब्देष्वेव, न तु आवश्यक्यादिषु इति एवकारार्थः ।
ननु तर्हि आवश्यक्यादिषु प्रयोगाभिधायी कारशब्दो नान्वेति । तथा च 'आवश्यकीप्रयोग: सामाचारी" इति अर्थो न लभ्येत । किन्तु “आवश्यकी सामाचारी" इति अर्थः लभ्यते । स चानिष्टः । अत्र आवश्यक्यादिशब्दानां प्रयोगरूपाणामेव सामाचारीत्वभणनात् । अत आह आवश्यक्यादिपदानां चेत्यादि । आवश्यक्यादिपदानां =गाथायां दृश्यमानानां शब्दपरत्वावश्यकत्वादेव आवश्यक्यादिशब्दप्रयोगवाचकत्वावश्यकत्वादेव । नहि गाथायां दृश्यमानं आवश्यकीपदं आवश्यक्यात्मकस्यात्मगुणस्य वाचकं, तथा सति "तादृशात्मगुणः सामाचारी" इति अर्थः स्यात् । न च स अत्राभिप्रेतः, शब्दप्रयोगस्यैवात्राभिप्रेतत्वात् । तस्मात् आवश्यक्यादिपदानां गाथायां र दृश्यमानानां आवश्यक्यादिशब्दपरत्वं आवश्यकमेवेति भावः । अनुपपत्तिविरहे=यदि हि कारशब्दः र आवश्यक्यादिषु न संबध्येत, तर्हि "आवश्यकीशब्दप्रयोगः सामाचारी" इति अभिप्रेतः अर्थः न लभ्येतेत्यादिरूपा या अनुपपत्तिः, तस्या अभावे तत्र आवश्यक्यादिषु पदेषु अनतिप्रयोजनं न पुष्टकारणवत्।। यद्यपि तादृशानुपपतिविरहाय तत्र कारशब्दः संयुज्यते इति कारशब्दस्य तत्र योजने तादृशानुपपतिरेव प्रयोजनं। भवता उच्यत एव । किन्तु सा अनुपपत्तिस्तु प्रतिपादितेन प्रकारान्तरेणावि दूरीकर्तुं शक्यते । ततश्च भवत्प्रतिपादितं प्रयोजनं अतिप्रयोजनं पुष्टकारणं नास्तीति तत्र कारशब्दयोजनमपि अतिप्रयोजनवत् नास्तीति भावः । अत एवात्र अप्रयोजनमित्यनुक्त्वा अनतिप्रयोजनमित्युक्तम् ।
अत एव कारशब्दस्य आवश्यक्यादिषु यद्योजनं, तस्यानतिप्रयोजनत्वादेव उक्तं नवाङ्गीटीकाकृद्भिः श्रीमदभयदेवसूरिभिः कथितं श्रद्धार्थ-व्यलीकार्थाऽवैतथ्यार्थानां इच्छाशब्दः श्रद्धार्थः, मिच्छाशब्दः व्यलीकार्थः, निरर्थकत्वार्थः निष्फलत्वार्थः इति यावत् । तथाशब्दः अवैतथ्यार्थः सत्यत्वार्थः । एतच्च तत्तत्सामाचारीनिरूपणे स्वयमेव स्फुटीभविष्यति । यथास्वविषयं=शास्त्रानुसारेण यदा यदा यद्यत्सामाचारी * कर्तव्या स्यात्, तदा तदा।। ___अवयवे="भीमसेन-इच्छाकार" इत्यादिरूपाणां अवयविनां अवयवभूतेषु भीम-इच्छादिपदेषु समुदायोपचारात्=भीमसेन-इच्छाकारादिरूपाणां समुदायानां अवयविस्वरूपाणां व्यवहारात् । भीमादिपदे भीमसेनादिपदार्थानां व्यवहारो भवतीति । 'अत्र हि टीकायां कारशब्दः इच्छामिच्छातथापदेष्वेव संयोजितः, न तु आवश्यक्यादिषु' इति एव दर्शयितुं एषः पाठः अत्रोपन्यस्तः ।
RRRRRRRRRRRRRRRRREER
EEEEEEEEEEE
8 મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૩૨ Келгиланганлигини англаганикалната галигининг
EEEEEE