________________
Etaastha
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
maaman a
JWISIR सामायारी यशो. - समभिरूढस्त्वाह-नन्वेवं प्रमत्तसंयतादयोऽप्येवंप्राया इति तेषामपि तत्प्रसङ्ग 1 इति 'त्रिगुप्त' इत्यपि विशेषणीयम् । तदर्थश्चाकुशलचित्तादिनिरोधित्वं कुशलचित्ताधुदीरकत्वं च, 'एकग्रहणे तज्जातीयग्रहणम्' इतिन्यायात् 'पञ्चसमित' इत्यपि द्रष्टव्यम् ।।
चन्द्र. - समभिरूढस्तु ब्रूते-ये हि षड्जीवनिकायेषु सघट्टनाद्यतिचारवन्तः न भवन्ति । तेऽपि हि समिति-गुप्तिषु सूक्ष्मदोषभागिनःसंभवन्ति । ते हि समितिगुप्तिषु सूक्ष्मदोषवशात् प्रमतसंयताः भवन्ति । ततश्च तादृशप्रमत्तसंयता अपि 'सुसंयता' इति कृत्वा सामाचारीपदेन व्यवहर्तव्याः स्युः । न च तदिष्टं मम । तस्मात् 'त्रिगुप्त' इति विशेषणमपि देयम् । ततश्च प्रमतसंयतादयः सुसंयता अपि सन्तो न त्रिगुप्ता इति न तेषु सामाचारीपदप्रयोगापत्तिरिति । ___ ननु 'त्रिगुप्तः' इति विशेषणस्य कोऽर्थः भवतीत्यत आह तदर्थस्तु इति । ननु त्रिगुप्तविशेषणेन तिस्रः । गुप्तयः गृहीताः । किन्तु पञ्च समितयस्तु अद्यापि अगृहीता एव । न च समितीनामग्रहणं शोभनमाभातीत्यत आह एकग्रहणे तज्जातीयग्रहणमित्यादि । प्रवचनमातृत्वजातिर्हि गुप्तिषु समितिषु च वर्तते । तत्र गुप्तिग्रहणे प्रवचनमातृत्वजात्या गुप्तिसजातीयानां समितीनामपि ग्रहणं स्वयमेव दृष्टव्यम् ।
इत्थञ्च अष्टप्रवचनमातृपालका अप्रमतसंयता एव सामाचारीपदव्यवर्हतव्या भवन्ति । अष्टप्रवचनमातृषु सूक्ष्मदोषवन्तः प्रमतसंयता नेति न तेषु सामाचारीपदव्यवहारापत्तिः इति समभिरूढाभिप्रायः ।
इदमत्र हृदयम् । अविरतसम्यग्दृष्ट्यादयः अपि ज्ञेयप्रत्याख्येयपरिज्ञावन्तो भवन्ति । किन्तु ते षट्सु । जीवनिकायेषु संघट्टनादिरहिता न भवन्ति । अत एव सुसंयतविशेषणेन तेषां व्यवच्छेदः कृतः । तथा सुसंयता: प्रमत्ताः संघट्टनादिरहिता भवन्ति, किन्तु अष्टप्रवचनमातृयुक्ताः न भवन्ति । अत एव त्रिगुप्तपदेन तेषामपि । व्यवच्छेदः कृतः । एतत्तत्वं टीकानुसारतो लभ्यते । अत्र उपयुक्तसुसंयतत्रिगुप्तपदानां पृथक्पृथगर्थो वक्तव्यः। येन मन्दबुद्धीनां सम्यग्बोधो भवेत् । स चायं । चतुर्थपञ्चमगुणस्थानवर्तिनोऽपि जीवाः मिथ्यात्वाद्यपेक्षया ज्ञेयप्रत्याख्येयपरिज्ञावन्तो भवन्तीति ते उपयुक्ताः वक्तुं शक्यन्ते । षष्ठगुणस्थाने च ये संघट्टनादिदोषवन्तो भवन्ति, ते उपयुक्ता अपि सुसंयता न भवन्ति । तेषामपि सुसंयतपदेनैव व्यवच्छेदो भवति । तथा प्रमत्तसंयतगुणस्थाने या प्रमत्तता अस्ति । तत्कारणीभूताः द्विविधाः अतिचाराः तद्गुणस्थाने संभवन्ति । व्यावहारिकाः अतिचाराः, नैश्चयिकाः अतिचाराश्च । तत्र बाह्यदृशा दृश्यमानाः षड्जीवनिकाय-संघट्टनपरितापनादिकाः अतिचाराः स्थुलाः व्यावहारिकाः अतिचाराः । ये तु बाह्यदृशाऽदृश्यमानाः, स्थूलातिचार-अजनकाः सूक्ष्मदोषाः अल्पकालीनानाभोगप्रमादादयः भवन्ति, ते नैश्चयिकाः अतिचाराः । तत्र व्यावहारिकातिचारवन्तः श्रमणाः सातिचारसंयतपदेन व्यवहीयन्ते । नैश्चयिकातिचारवन्तः श्रमणा: निरतिचारसंयता एव कथ्यन्ते । तथापि सूक्ष्मदोषवशात् तेषां यदा षष्ठगुणस्थानसंभवो भवति । तदा ते समितिगुप्तियुक्ताः न कथ्यन्ते, किन्तु का प्रमत्तसंयताः कथ्यन्ते । ये तु एतदुभयदोषविप्रमुक्ता भवन्ति, ते अप्रमत्तसंयता: कथ्यन्ते । एतत्तावत्संक्षेपतो निरुपितम् । अत्रापि बहु वक्तव्यम् । तत्तु विस्तरभयात् नोच्यते । एतदनुसारेण प्रकृतटीकापदार्थः स्वयमेव स्पष्टीकर्तव्यः ।
આ મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત - ૧૦ RessmanasamacaramcamRRESTERRRRRIGEEEEEEEEEEEEEEEEEEEEEEEEEERIES