________________
તથાકાર સામાચારી
युक्तिग्राह्या युक्तिपूर्वमेव निरूपणीया आज्ञाग्राह्याश्चान्यथैव । अन्यथा व्याचक्षाणस्यार्थकथनाशातना । उक्तं च- ( पंचवस्तु - ९९४ )
आणागेज्झो अत्थो आणाए चेव सो कहेयव्वो । दिट्ठति उ दिट्ठता कहणविहिविराहणा इहरा ॥ इति ।
चन्द्र.
प्रत्यवस्थाने=आशङ्कायाः प्रारंभे 'ननु' पदमुच्चार्यते इति भावः । आज्ञाग्राह्यान्= आज्ञामात्रग्राह्यान् । आज्ञाग्राह्याश्चान्यथैव = आज्ञापूर्वकमेव । अन्यथा = युक्तिग्राह्यान् अर्थान् आज्ञाग्राह्यत्वेन, आज्ञाग्राह्यान् चार्थान् युक्तिग्राह्यत्वेन् व्याचक्षाणस्य = वदतः । पंचवस्तुगाथार्थस्त्वयम् → आज्ञाग्राह्यः अर्थः आज्ञयैव कथयितव्यः । दिट्ठति = दृष्टान्तग्राह्यः = युक्तिग्राह्यः अर्थः दिट्टंता = दृष्टान्तेन = युक्त्यैव कथनीयः । इहरा = विपरीतकरणे कहणविहिविराहणा = यो जिनैः अर्थकथनविधिः प्रतिपादितः, तस्य विराधना कृता भवतीति ।
-
इदमत्र हृदयम्। “आत्मा अस्ति, स नित्य अस्ति, अनित्यश्चापि अस्ति, पृथ्वीजलतेजोवायुवनस्पत्यादयः सजीवाः सन्ति । कर्म अस्ति, परलोकोऽस्ति, एकभवाद् भवान्तरगमनमस्ति, आत्मनः सकाशात्शरीरं भिन्नमस्ति" इत्यादयः ये पदार्थाः युक्तिकथनेन साधयितुं शक्यन्ते, ते पदार्थाः युक्तिकथनपूर्वकमेव साधनीयाः । तत्र हि "भगवान् सर्वज्ञो न कदाचिदप्यसत्यं वदति, ततश्च आत्मास्तित्वादयः पदार्थाः यतः भगवता सर्वज्ञेनोक्ताः, ततः तेऽवश्यं स्वीकरणीयाः । न तत्र किमपि विचारणीयम् । श्रद्धैवास्माकं महत्कल्याणकारिणी, किं बुद्धिमात्र ग्राह्यया युक्त्या ? जिनशासने युक्तेरवकाश एव नास्ति" इत्यादि निरूपणं न जिनवचनानुसारि । यतः युक्तिपूर्वकं निरूप्यमाणे पदार्थे श्रद्धा दृढा शीघ्रं च भवति, युक्तिरहितमेव निरूप्यमाणे पदार्थे च मन्दा दीर्घकालेन च भवतीति सामान्यत अनुभूयते । ततश्च यदि एते युक्तिग्राह्याः पदार्था अपि आज्ञामात्रग्राह्यत्वेन उपदिश्येरन्, तर्हि श्रोतारः जिनवचनं फल्गु मन्येयुः । ते हि चिन्तयेयुः यदुत "न हि जिनैः सम्यगभिधानं कृतं, केवलं बलात्कारेणैव एतैः अस्मन्मनसि पदार्थाः स्थाप्यन्ते । न चेदं अस्मभ्यं रोचते" इत्यादि । एवञ्च मुनिना कृतः स उपदेशः तेषां जिनवचने एव श्रद्धाशैथिल्यकारी भवतीति मुनेः अर्थकथनविराधना स्फुटैव ।
किञ्च यद्यपि उपदेशकाले वक्तुः प्रभावात् श्रोतारः तान् आज्ञामात्रग्राह्यत्वेन प्रतिपाद्यमानानपि पदार्थान् स्वीकुर्युः, किन्तु तथाविधयुक्त्यादिबोधाभावात् यदा मिथ्यादृष्टयादयः तान् श्रोतॄन् विपरीतयुक्त्यादिना ता पदार्थान् विपरीतरूपान् कथयिष्यन्ति, तदा एते श्रोतारः मूढा एव भवेयुः, मिथ्यात्वं प्राप्नुयुः । प्राक्प्रतिपादितान् सत्यानपि पदार्थान् परित्यजेयुः इति महतीयं विडम्बना स्यात्तेषां । तस्मात् युक्तिग्राह्याः पदार्थाः युक्तिपूर्वकमेव निरूपणीयाः इति परमार्थः ।
युक्तिनिरूपणे हि श्रोतृमनसि महान् प्रमोदः समुत्पद्यते । “अहो ! निश्चितं एते जिना: सर्वज्ञाः यदेतादृशीं सूक्ष्मां युक्ति प्रतिपादयन्ति । अप्रतिहतप्रभावमेतज्जिनशासनम्" इत्यादि । एवं च तेषां सम्यक्त्वप्राप्तिः, प्राप्तसम्यक्त्वस्य वा विशुद्धिः भवेत् । तथा भविष्यत्काले न कैश्चिदपि मिथ्यादृष्ट्यादिभिः तेषु पदार्थेषु वञ्चयेरन् प्रत्युत युक्तिप्रतिपादनद्वारा मिथ्यादृशानपि सम्यक्त्वं प्रापयेयुः ते इति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૪૬