SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ REATER NITIATION मिWISIR सामाचारी ___ यशो. - न केवलं स्वयमेवासौ मिथ्यादृष्टिः किन्तु वर्धयति च वृद्धिं नयति च मिथ्यात्वं विपर्यासं परस्य आत्मनोऽन्यस्य शङ्का सन्देहं किमयमेवानुचितं करोति उत आप्तोपदेश एवायम् ? इत्येवंरूपां जनयन्–विदधानः । चन्द्र. - किमयमेवानुचितम् आधाकर्मादिग्रहणादिरूपं ? आप्तोपदेश एवायम्="साधुना। आधाकर्मापि ग्रहीतव्यं" इति भगवतैवोपदिष्टम् ? - આ સાધુ માત્ર પોતે જ મિથ્યાત્વી છે એટલું નહિ. પરંતુ પોતાના વિપરીત આચારને જોનારાઓના મનમાં છે છે એવી શંકાને ઉત્પન્ન કરવામાં નિમિત્ત બને છે કે, “શું આ સાધુ જ અનુચિત વર્તન કરે છે? કે પછી પરમાત્માએ છે 8 જ એને આ પ્રમાણે કરવાની રજા આપી છે ?” આવી શંકાને ઉત્પન્ન કરતો આ સાધુ બીજાના મિથ્યાત્વને વધારનારો બને છે. CLEVEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ____यशो. - इयं हि शङ्का तत्र तथाविधमायावशादनाचारित्वनिश्चयमनास्कन्दन्ती तदाचारे आप्तोपदिष्टत्वनिश्चयमादायैव पर्यवस्यतीति कथं न ततः परस्य विपर्यासः ? इदं च। निश्चयनयमतम् । र चन्द्र. - ननु जिनवचनविपरीतं श्रद्धानं हि मिथ्यात्वं । प्रकृते तु परस्य शङ्कवास्ति यदुत "आधाकर्मग्रहणमस्यैव मुनेरनुचिता प्रवृत्तिः ? उत जिनस्यैवोपदेशः ?" इति । न तु "आधाकर्म ग्रहणं जिनोपदिष्टमेवत" इति विपरीतं श्रद्धानं तस्य जातं । ततश्च कथं परस्य मिथ्यात्वं, मिथ्यात्ववृद्धिर्वा ? इत्यत आह इयं हि शङ्का इत्यादि । तथाविध-मायावशात् स मुनिः परं प्रति कथयति यदुत "स्वाध्यायादियोगार्थं । तीर्थकरैः आधाकर्मग्रहणमनुज्ञातमेव । अहं हि तीर्थकरे महानुरागी तीर्थकराज्ञां स्वप्नेऽपि नोल्लङ्घयामि । किञ्च । श्रावकोपरि उपकारकरणार्थमपि तीर्थकरैराधाकर्मग्रहणमनुज्ञातं" इति । ततश्च तस्य तथाविधमायायाः प्रभावात् । अनाचारित्वनिश्चयमनास्कन्दन्ती="किमयं साधुरेवानाचारी ? उत तीर्थकरस्यैवायमुपदेश" इति शङ्का 'साधुः। अनाचारी' इति निश्चयरूपतया न परिणमति । किन्तु तदाचारे साधोराधाकर्मादिग्रहणात्मकानाचाररूपे आचारे । आप्तोपदिष्टत्वनिश्चयमादायैव भगवतोपदिष्टत्वस्य यः निश्चयः, तद्पतयैव पर्यवस्यति परिणमति । शङ्का हि विपरीतपदार्थद्वयविषया सती तथाविधनिमित्तवशात् एकतरपदार्थविषयकनिश्चयरूपतया परिणमति । यथा । 'किमयं वृक्षः ? स्थाणुर्वा ?' इति शङ्का विहगोड्ड्यनादिदर्शनात् वृक्षविषयकनिश्चयरूपतया परिणमति । एवमत्रापि “किं इदं आधाकर्म साधोरेवानाचार ? उत भगवतोपदिष्ट आचार: ?" इति शङ्का साधोः तथाविधमायायाः प्रभावात् साधुकृतानाचारविषयकनिश्चयरूपतया अपरिणमन्ती सती भगवदुपदिष्टाचारविषयकनिश्चयतयैव परिणमति । तादृशनिश्चयश्च स्फुटमेव मिथ्यात्वमिति स मुनिः परेषामपि मिथ्यात्वं जनयति, वर्धयति चेति सिद्धम् । अत्रेदं बोध्यम् । गाढमिथ्यात्विनः, अपुनर्बधकपरिणामवन्तः, सम्यगदृष्टयश्चैते त्रये संयमग्रहणानन्तरं EEEEEEEEEEEEEEEE # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા, + વિવેચન સહિત ૦ ૧૧૨ WrestEERINE ERUTERRIGHERGESHEEEEEEEEEETERESTERIOTREESORRRRRRRRREERS
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy