SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मिच्छार सामाचारी यशो. अथ प्रत्येकमक्षराणामर्थवत्त्वे प्रत्येकं स्याद्युत्पत्तिप्रसङ्गः, धातुविभक्तिवाक्यवर्जार्थवत्त्वेन तस्य नामत्वादिति चेत् ? - चन्द्र. - पुनः पूर्वपक्ष: उपतिष्ठति अथ प्रत्येकमक्षराणां इत्यादि । यदि हि 'मि' इत्यादि प्रत्येकाक्षराः मृदुमार्दवाद्यर्थवन्तो भवन्ति । तर्हि " यद् यत् अर्थवत् तत्तत् नाम" इति व्याख्यानुसारेण प्रत्येकाक्षराः 'नाम' भविष्यन्ति । नाम्ना च सह "सि औ अस्" इत्यादि विभक्तिप्रत्ययाः संयुज्यन्ते एव । एवं च प्रत्येकं='मि' इत्यादिप्रत्येकाक्षराणां स्याद्युत्पति प्रसङ्गः सि औ अस् इत्यादिप्रत्ययोत्पत्त्यापत्तिरिति । ततश्च यथा कविः कवी कवयः इत्यादिप्रयोगाः भवन्ति । तथा मिः मी मयः इत्यादिप्रयोगा अपि भवेयुः । न च तदिष्टमिति । ननु 'यत् यत् अर्थवत् तत्तत् नाम, तेन च सह "सि" इत्यादिप्रत्यया संयुज्यन्ते' इति यद् भवतोक्तं तन्न युक्तं । यतः 'गम्' इत्यादि धातूनां सि-औ- अस् इत्यादिविभक्तिनां, घटमानय इत्यादिवाक्यानां च स्यादिविभक्तयः न उत्पद्यन्ते । किन्तु घटादिनाम्नामेवेति अत पूर्वपक्षः नाम्नः व्याख्यामाह धातुविभक्ति इत्यादि । धातुविभक्तिवाक्येभ्यः भिन्नं यद् यद् अर्थवत् तत्तत् नाम । तस्य च स्यादिविभक्त्युत्पत्तिः भवति । घटपदादयश्च शब्दाः धात्वादिभिन्नाः अर्थवन्तश्चेति ते नामानि भवन्ति प्रकृते मि इत्याद्यक्षरा अपि धात्वादिभिन्नाः अर्थवन्तश्च सन्तीति ते अपि नामानि स्युः । ततश्च तेषां स्याद्युत्पत्त्यापत्तिः दुर्वारैवेति पूर्वपक्षाभिप्रायः । शिष्य : भू, धी वगेरेने अर्थवाणा जने यह तरीडे मान्याछे तो खेभने 'सि' वगेरे जेस्थी भांडीने खाय विलतिखो लागे छे. हवे तमे भेमि च्छा वगेरे खेड खेड अक्षरीने अर्थवाणा जने यह तरीडे मानशो तो પછી એ બધાયને આઠેય વિભક્તિઓ લાગવાની આપત્તિ આવશે. એ તો તમને ઈષ્ટ જ નથી. ગુરુ : વિભક્તિ તો નામને લાગે. શિષ્ય : તો આ મિ વગેરે પણ તમારા હિસાબે તો નામ જ બનશે, કેમકે “જે ધાતુ, વિભક્તિ અને વાક્યથી ભિન્ન હોય અને અર્થવાળું હોય એ નામ કહેવાય. મિ વગેરે અક્ષરો ધાતુ, વિભક્તિ અને વાક્યથી ભિન્ન જ છે અને પાછા અર્થવાળા છે. એટલે તે નામ છે અને માટે તેમને વિભક્તિઓ લગાડવી પડશે. यशो. न तत्रार्थवत्पदस्य योगार्थवत्परत्वादिति, अधिकमस्मत्कृताऽध्यात्ममतपरीक्षायामवसेयम् ॥२६॥ चन्द्र. - टीकाकारः समाधानमाह तत्रार्थवत्पदस्य इत्यादि । तत्र = " धातुविभक्तिवाक्यवर्जं अर्थवत् यत् तन्नाम" इति नाम्नः व्याख्यायां अर्थवत्पदस्य योगार्थवत्परत्वात् = व्याकरणानुसारिव्युत्पत्तिप्रतिपादितो यः अर्थः, तद्वान् यः, तद्बोधकत्वात् । तथा च 'धातुविभक्तिवाक्यवर्जं योगार्थवत् यत् तत्' नाम इति फलितम् । घटादिशब्दाश्च तादृशाः । यतः ते धात्वादिभिन्नाः 'घटनात् घटः' इत्यादियोगार्थवन्तश्च सन्ति । न हि 'मि' इत्याद्यक्षराणां व्याकरणानुसारिणी व्युत्पत्तिरस्ति । ततश्च ते अक्षरा न नामानीति न तेषां स्याद्युत्पत्तिप्रसङ्गः । अत्रापि बहु वक्तव्यमस्ति, अत आह अधिकमस्मत्कृत इत्यादि ॥२६॥ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૦૬
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy