________________
* शब्दे द्रव्यत्वसिद्धिः *
२३ स्निग्धस्पर्शानीत्यादिदिशा मृदुस्पर्शावयवानां स्पर्शान्तरयोगै समुदायमधिकृत्य भावनीयम् । कानिचिच्चतुःस्पर्शान्यपि। समुदायमधिकृत्य तु चतुःस्पर्शान्येव । तत्र चतुःस्पर्शेषु द्वौ मृदुलघुरूपाववस्थितौ, स्पर्शी अन्यौ तु द्वौ स्निग्धोष्णौ स्निग्धशीतौ, रूक्षोष्णौ रूक्षशीतौ __ 'स चायं शब्दो द्वेधा, भाषात्मकोऽभाषात्मकश्च । भाषात्मकोऽपि द्विप्रकारोऽक्षरात्मकोऽनक्षरात्मकश्च । प्रथमः शास्त्राभिव्यञ्जकः संस्कृतादिभेदादार्य-म्लेच्छव्यवहारहेतुः। अनक्षरात्मको द्वीन्द्रियादीनामनतिशयज्ञानस्वरूपप्रतिपादनहेतुः। स एष प्रायोगिक एव । अभाषात्मकोऽपि द्वेधा-प्रयोग-विश्रसानिमित्तत्वात् । तत्र प्रयोगनिमित्तश्चतुर्धा ततादिभेदात्। ततस्तन्त्रीप्रभवः, आनद्धो मुरजादिसमुद्भवः, घनः कांस्यतालादिजनितः, सौषिरो वंशादिनिमित्तः । विश्रसानिमित्तातु शब्दो मेघादिप्रभवः इति व्यक्तं स्याद्वादरत्नाकर [५/८] इति।
यच्च वाक्यपदीये 'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं। (वा. प. १/१) इति भर्तृहरिणोक्तं, तन्न मनोरमम् ब्रह्मणश्चैतन्यरूपत्वाच्छब्दस्य च पौद्गलिकत्वेन जडत्वादनयोरैक्यापादनस्य बाधितत्वात, सर्वथाऽक्षरत्वासिद्धेश्च । शब्दस्य स्फोटरूपत्वनिरासस्तू स्याद्वादरत्नाकर-कल्पलतादितो ज्ञातव्यः, विस्तरभयादत्र नोच्यते। ततः शब्दे वर्णादिविचारः सुसंगत एवेति सिद्धम्।। __ वर्णादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्ध्यथ 'भावतस्तु वर्णवन्ती' त्यादिना प्रक्रियते। अत्र तावन्मनाग्मीमांसामहे । एकस्मिन् परमाणौ मृदुस्पर्शवत्त्वं, अत्र 'मृदुशीतौ मृदूष्णौ वे'त्यादिनोक्तं तद् व्याख्याप्रज्ञप्त्यादिभिः सह विरुद्धमिव प्रतिभाति । व्याख्याप्रज्ञप्तौ एकपरमाणुविचारे, "दुफासे सिय सिए य निद्धे य १ सिय सीए य लुक्खे य २ सिय उसिणे य णिद्धे य ३ सिय उसिणे य लुक्खे य ४" । (भ. सू. श. २०/उ. प./सू. ६६८) इत्युक्तम् । प्रज्ञापनाटिप्पणे पञ्चमपदस्यान्ते च हरिभद्रसूरिभिरप्युक्तं "शीतोष्णस्निग्धरूक्षाणां संवादिद्वयस्पर्शः परमाणु"रिति। तत्त्वार्थटीकाकृताऽपि "अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु सम्भवन्ति" । (५/२३ तत्त्वा. वृत्ति) इत्युक्तम् । प्रज्ञापनायामपि 'परमाणुपुग्गले परमाणुपोग्गलस्स...फासाणं सीयउसिणनिद्धलुक्खेहिं छट्ठाणवडिए' (प्रज्ञा. पद-५/सू-१२०) इत्युक्तम् । तद्व्याख्यानं च श्रीमलयगिरिचरणैरेवं कृतं, "परमाण्वादीनामसङ्ख्यातप्रदेशस्कंधपर्यन्तानां केषांचिदनन्तप्रादेशिकानामपि स्कंधानां तथैकप्रदेशावगाढानां यावत्संख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति" । अतः "त्रिस्पर्शत्वं कानिचिन्मृदुशीतस्पर्शानि" इत्यादि यदुक्तमत्र विवरणकारेण तदप्युपर्युक्तशास्त्रवचनैः सह विसंवदति । व्याख्याप्रज्ञप्तावप्युक्तं 'जइ तिफासे सव्वे सीए देसे निद्धे देसे लुक्खे १, सव्वे उसिणे देसे निद्धे देसे लुक्खे २, सव्वे निद्धे देसे सीए देसे उसिणे ३, सव्वे लुक्खे देसे सीए देसे उसिणे ४(भ.सू.श.२०/उ.५/सू.६६८)। अत्र च त्रिस्पर्शविचारे मृदुस्पर्शो नोक्तः । तथा चतुःस्पर्शविचारेऽपि 'द्वौ मृदुलघुरूपाववस्थितौ स्पर्शी' इत्यादिकमपि प्रज्ञापना-व्याख्याप्रज्ञप्त्यादिभिः सह प्रतिकूलमिव प्रतिभाति । तदुक्तं प्रज्ञापनाया गहणदव्वाइं पडुच्च णो एग फासाइं गेण्हति, दुफासाइं गिण्हइ, जाव चउफासाइं गेण्हति, णो पंचफासाइं गेण्हइ जाव नो अट्ठफासाइं गेण्हति । सव्वगहणं
यमा चउफासाइं गेण्हति। तं जहा - सीतफासाइं गेण्हति, उसिणफासाइं, णिद्धफासाइं, लुक्खफासाई गेण्हति । (प्रज्ञा. पद-११/सूत्र १६८) अत्र च नामग्रहं "णो पंचफासाइं गेण्हइ, जाव णो अट्ठफासाइं गेण्हति" इत्यादिना
* भाषा में स्पर्शसंख्या विचार * 'स्पर्शसंख्या.' इत्यादि। जीव जिन भाषाद्रव्यों को ग्रहण करता है उनमें से किसीमें दो स्पर्श होते हैं लेकिन सिर्फ एक स्पर्श किसी में भी नहीं होता है, क्योंकि एक परमाणु में भी दो स्पर्श तो अवश्य होते हैं, एक स्पर्श नहीं। दो स्पर्श मृदुशीत या मृदुउष्ण होते हैं। कतिपय भाषाद्रव्य तीन स्पर्शवाले भी होते हैं। तीन स्पर्श की घटना इस तरह विवरणकार ने बताई है कि - कतिपय भाषाद्रव्यों में मृदुशीत स्पर्श और कतिपय भाषाद्रव्यों में मृदुस्निग्ध स्पर्श इस तरह मृदुस्पर्श के साथ अन्य स्पर्श का योग होने पर
१ दृश्यतां स्याद्वाद कल्पलतायां दशमस्तबके १६० तमे पृष्ठे।