________________
२० भाषारहस्यप्रकरणे स्त. १. गा. ३
● भाषाद्रव्यग्रहणप्रकारप्ररूपणम् ०
रसवन्ति, स्पर्शवन्ति वा? ति जिज्ञासायामाह द्रव्यादिचतुर्विशेषः पुनर्यथायोगं = सूत्रोक्तनीत्या यथासंभवं ज्ञातव्यः । तथाहि द्रव्यतस्तावदनन्तप्रदेशकान्येव गृह्णाति नैकपरमाण्वाद्यात्मकानि स्वभावत एव तेषां ग्रहणायोग्यत्वात् । क्षेत्रतस्त्वसङ्ख्येयप्रदेशावगाढान्येव एकप्रदेशाद्यवगाढानां ग्रहणायोग्यत्वात् । कालतस्त्वेकसमयस्थितिकान्यपि, यावदसङ्ख्येयसमयस्थितिकान्यपि पुद्गलानामसङ्ख्येयमपि कालं यावदवस्थानसम्भवात् । "निरेए जहन्नेणं एक्कं समयं उक्कोसेणं असङ्खेज्जं कालं' इति व्याख्याप्रज्ञप्ति - वचनात्। एकसमयस्थितिकत्वं च ग्रहणानन्तरमेव निसर्गे, ग्रहणसमय एवावस्थानात्प्रतिपत्तव्यम् । एकप्रयत्न - गृहीतानामप्यादि भाषापरिणामस्थितिवैषम्यादेकसमयस्थितिकान्यपीत्यन्ये ।
-
कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं । (भग. सू. श. ५. उद्दे. ७. सूत्र ७) इदं अन्वयमुखेन । व्यतिरेकमुखेन पुनः तत्रैवोक्तं, "असद्दपरिणयस्स णं भंते! पोग्गलस्स अंतरं कालओ केवचिरं होइ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइ भागं" (भग. श. ५. उद्दे. ७/सू.७)
यत्तु "निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात् भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाषैव इति वचनादिति" विशेषावश्यकभाष्यवृत्तौ श्रीहेमसूरिभिरुक्तं तत्तु एवम्भूतनयाभिप्रायेण द्रष्टव्यमिति न कश्चिद्दोषः ।
यदपि 'भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः तस्यैव जघन्यतः समयमानत्वात् न तूभयं भाषा, तस्य जघन्यतो द्विसमयमानत्वात् । ग्रहणमात्रं तु केवलं 'भाष्यत इति भाषा' इति व्युत्पत्त्यर्थस्यैवाऽघटनाद् भाषा न भवत्येवेति' (वि. भा. श्लो. ३७२ मलधारवृ.) इति विशेषावश्यकवृत्तावुक्तं तदपि एवम्भूतनयाभिप्रायेण द्रष्टव्यम् । यच्चात्र 'एकसमयस्थितिकत्वं च ग्रहणानन्तरमेव निसर्गे, ग्रहणसमय एवावस्थानादिति विवरणकारेणोक्तं तत्तु प्रज्ञापनावृत्त्यभिप्रायेणेति द्रष्टव्यम् । अस्मत्पूज्यपादास्तु भाषाद्रव्याणामेकसमयस्थितिकत्वं च ग्रहणसमये भाषात्वेन परिणमय्य निसर्गसमये एव केषाञ्चिदभाषापरिणामापन्नानां ग्रहणसमये एवावस्थानात्प्रतिपत्तव्यम् । यद्वा भाषापरिणामाधानं विनैव परिशटितानां भाषाद्रव्याणामेकसमयस्थितिकत्वं ग्रहणसमये एवावस्थानात्स्वीकर्त्तव्यमित्याहुः ।
1
अपरे तु ग्रहणानन्तरमेव वक्तुः भाषणपरिणामोपरमे मरणरूपव्याघाते वैकसमयस्थितिकत्वमित्यपि वदन्ति । "येषां केषाञ्चिद् भाषाद्रव्याणामेकसमयावशेषस्वस्थितिरतिक्रान्ता भवेत्तेषां ग्रहणमात्रेण पुद्गलान्तरपरिणत्या न समयाधिका स्थितिर्भवितुमर्हतीति तदपेक्षया प्रकृते एकसमयस्थितिकताभिधानमनुसन्धेयमिति श्रीजगच्चन्द्रसूरयो व्याचक्षते ।
वस्तुतस्तु यथा प्रज्ञापनावृत्तावाहारपदे 'स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेनावस्थानमवसेयमिति मलयगिरिचरणैरुक्तं तथाऽत्रापि 'गृहीतभाषाद्रव्यस्थितिरिति भाषायोग्यस्कंधपरिणामत्वेनावस्थानमिति वक्तुमर्हति । तथा चैकसमयस्थितिकत्वं यदा भाषाद्रव्याणां ग्रहणसमये एव भाषायोग्यस्कंधपरिणामत्वेनावस्थानं नापि पूव नापि पश्चात्तदा ज्ञातव्यमिति तावद् वयमवगच्छामः । तत्त्वं तु बहुश्रुता विदन्ति ।
अन्यमतमाह 'एकप्रयत्ने' त्यादिना । अन्येषामयमाशयः, पुद्गलानां विचित्रपरिणामत्वादेकप्रयत्नगृहीतमुक्ता अपि ते केचिदेकं समयं भाषात्वेनाऽवतिष्ठन्ते, केचिद् द्वौ समयौ यावत्केचिदसङ्ख्येयानपि समयानिति । 'भाष्यमाणा भाषा' * भाषाद्रव्य में स्पर्शविचार *
'भावतः' इत्यादि । भाव की अपेक्षा जीव जिन भाषाद्रव्यों को ग्रहण करता है, वे वर्ण-गंध-रस-स्पर्श से युक्त होते हैं, वर्णादि शून्य नहीं, क्योंकि कोई भी पुद्गल किसी भी काल में किसी भी देश में या किसी भी अवस्था में वर्ण, गन्ध आदि से शून्य नहीं होता है। यहाँ यह शंका हो सकती है कि "भाषाद्रव्यों में वर्णादि है तो क्या सब वर्णादि है या कतिपय वर्णादि है? -"इसको हल करने
१ निरेजो जघन्येनैकं समयं उत्कर्षेणासंख्येयं कालम् ।।