________________
२७८ भाषारहस्यप्रकरणे स्त. ४. गा. ८३ ● ध्वनियन्त्रोद्भवशब्दस्वरूपविचारः O हेत्वाद्युपयोगाभावस्य ग्रहणेनाऽविरोधात् सर्वथानुपयोगे तूष्णीम्भावप्रसङ्गात् । हेत्वाद्येनुपयोगे कथमहेतुकं वदेदिति चेत् ? विपरीतव्युत्पत्तेरिति गृहाण ।
शब्दानुत्पादेन मूकत्वापत्तिः कारणाभावे कार्याभावस्य न्याय्यत्वात् । न च तूष्णीम्भाव उपलभ्यते। ततः कार्यात् विवक्षारूपकारणमनुमीयते । ततः अनुपयोगभावेनेतिपदं हेत्वाद्युपयोगभावेनेत्यर्थकं न तु विवक्षारूपोपयोगाभावेनेत्यर्थकमिति सिध्यति । एतेन 'सम्यगुपयोगशालिनामिति ( भा. र. गा. १३ पृ. ५५) यत्पूर्वमुक्तं तत्र सम्यक्पदमपि परिचायकमिति व्यज्यते । तेन न मृषा - सत्यामृषाद्यसङ्ग्रहः ।
वयं तु ब्रूमः अभिलापजनकविवक्षारूपोपयोगजन्यवचनत्वमपि भावभाषायाः तटस्थलक्षणमेव न तु स्वरूपलक्षण्म् । तच्च भाषापर्याप्तिपर्याप्तजवचनत्वमेव । भाषापर्याप्त्या यो जीवः पर्याप्तः तज्जन्या या भाषा सा भावभाषेत्यर्थः । भाषापर्याप्तिपर्याप्तत्वं च तद्भविकं ग्राह्यम् । तेन न द्वीन्द्रियादिगत्यागतेन सचित्ताश्मादिना यः पतनादिनिमित्तकः शब्दो जन्यते तत्रातिव्याप्तिः । न वा विकलेन्द्रियभाषायामव्याप्तिः । एतेन अमनस्कत्वेन भगवतो भाषायां विवक्षारूपेच्छात्मकोपयोगजन्यत्वाभावेनाऽव्याप्तिः प्रत्युक्ता भाषापर्याप्तिपर्याप्तजन्यत्वस्याप्रच्यवत्वात् । अत एव षोडशवचनभेदान्तर्गताध्यात्मवचनस्यापि भावभाषायां समावेशः सुकरः । न च निसरणादिद्रव्यभाषायामतिव्याप्तिरिति वाच्यम्, द्रव्यप्राधान्यापेक्षया द्रव्यभाषात्वेऽपि निसरणादिक्रियाभाषापरिमाणलक्षणभावप्राधान्यापेक्षया भावभाषात्वस्यानपायात् उपधेयसाङ्कर्येऽप्युपाध्यसाङ्कर्यात् । वस्तुतोऽनाहितभाषापरिणामानामेव भाषाद्रव्याणां निरुपचरितं तद्व्यतिरिक्तद्रव्यभाषात्वं नोआगमतो घटामञ्चति । सूत्रे च कुतश्चिद् विवक्षातो भावभाषासङ्कीर्णा द्रव्यभाषा त्रिविधा प्रदर्शितेति आभाति ।
यद्यप्यजीवेभ्यः शब्दोत्पत्तिर्भवति तथापि नासौ भाषा किन्तु केवलं शब्द एव । न च ध्वनियन्त्रेभ्यः जातेषु शब्देष्वव्याप्तिरिति वाच्यम्, तत्र न भाषोत्पद्यते किन्तु ध्वनिरेव केवलः । अत एव तस्य ध्वनियन्त्रमिति यथार्थं नामकरणं, भाषायन्त्रं तु त्रसजीवस्थताल्वादिरेव तत एव यथेच्छं भाषोत्पत्तेः । आधुनिकध्वनियन्त्रेभ्यो न यथेच्छं शब्दोत्पत्तिः किन्तु पूर्वगृहीतशब्दाभिव्यक्तिमात्रम् । पूर्वमग्राहीतशब्दानामुत्पत्तिर्ध्वनियन्त्रेभ्यो नैव जायते किन्तु त्रसजीवेभ्य एवेति विशेषाच्च तत्र भावभाषात्वं नाभ्युपेयते । द्रव्यभाषात्दाभ्युपगमे च न नः क्षतिः । भावभाषात्वप्रतीतिस्तु कथञ्चित् सौसादृश्यादिना भ्रमात्मिकैव एतेन मूकेशस्यैवायं शब्द इति प्रत्यभिज्ञानमपि प्रत्युक्तम्, सादृश्यावगाहित्वे तस्य प्रमात्वेऽपि तादात्म्यावगाहित्वे भ्रमत्वानपायात् यामलप्रत्यभिज्ञानवत् ।
यदि च तत्राऽपि भावभाषात्वमुपचरितव्यवहारनयेन परमगुरूणामभिमतं तर्हि भाषापर्याप्तिपर्याप्तजतत्सदृशान्यतरशब्दत्वमेव तल्लक्षणमिति समाकलितसमयसद्भावैर्विभावनीयम् ।
यहाँ अभिप्रेत है वह विवक्षारूप है। वह उपयोग तो श्रुतविषयक मृषा भावभाषा को बोलनेवाले समकितदृष्टि मे होता ही है, क्योंकि वह तो उसका कारण है। कारण न रहेगा तो कार्य कैसे उत्पन्न होगा ? मगर उस समकितदृष्टि की वह श्रुतभावभाषा मृषा होने का कारण हेतु आदि के उपयोग का अभाव है। उपयोग शब्द एक होने पर भी उसके अर्थ अलग होने से अमुक अर्थ का निषेध करने पर भी अन्य अर्थ का विधान करने में कोई विरोध नहीं होगा।
* विवक्षा के अभाव में शब्द की अनुत्पत्ति *
-
सर्वथा. इति । यहाँ यह शंका करने की आवश्यकता नहीं है कि "श्रुतविषयक मृषा भावभाषा के वक्ता समकितदृष्टि में हेतु आदि के उपयोग का जैसे अभाव है वैसे विवक्षारूप उपयोग का भी अभाव क्यों नहीं है? हेतु आदि उपयोग के अभाव की तरह विवक्षारूप उपयोग के अभाव का स्वीकार करने में क्या विरोध है ? जिसकी वजह विवक्षात्मक उपयोग की विद्यमानता और हेतु आदि के उपयोग की अविद्यमानता का आप प्रतिपादन कर रहे हैं। हम तो कहते हैं कि या तो दोनों रहेंगे या तो दोनों नहीं "इसका कारण यह है कि यह शंका अनुत्थानपराहत है। हमने पूर्व में ही बता दिया है कि विवक्षा यानी बोलने की इच्छा = अभिलाषा शब्द की जनक होती है। जब विवक्षा ही नहीं होगी तब वक्ता बोलेगा ही क्या? क्या यह कभी देखा गया है कि बोलने की इच्छा
-