________________
२३८ भाषारहस्यप्रकरणे स्त. ३. गा. ६५
O प्रत्येकानन्तकायवचनप्रयोगविवक्षाहेतूपदर्शनम् O
अत एवाऽऽह चूर्णिकारः "" अणंतमिस्सिया जहा कोइ मूलगच्छोढं (थूडं) दगुणं अन्नं वा कंचि तारिसं भणिज्जा जहा सव्वो एस 'अणंतकाओत्ति। तस्स मूलपत्ताणि जिण्णत्तणेण परिभूयाणि केवलं तु जलसिंचणगुणेण केइ तस्स किसलया पादुब्भूआ* अओ अणंता परित्तेण' मीसिया भन्नइ । परित्तमीसिया जहा अभिनवउक्खयं मूलगं कोइ परिमिलाणं ति काउणं भणेज्जा जहा सव्वो एस परित्तो । तत्थ अंता परित्तीभूआ मज्झपए से अणंता चेव । एसा परित्तमीसियत्ति" । अत्र हि जीर्णपत्रत्वं म्लानकन्दत्वं च स्पष्टावेव विवक्षाहेतू मनवतारात्। एतेन अप्रयोगादिति हेतोः स्वरूपासिद्धिः प्रत्युक्ता । हेत्वन्तरमाह उभयातिरेकनिमित्तस्येति । अनन्तमिश्रितातः तथा परित्तमिश्रितातोऽतिरेकनिमित्तस्येत्यर्थः । अयं भावः यथोत्पन्नविगतमिश्रितभाषाद्वयातिरेकनिमित्तं बुद्धिविशेषरूपमस्ति तथा परीतानन्तमिश्रितभाषाद्वयातिरेकनिमित्तं नास्ति । अत उभयव्यतिरिक्तायाः परीतानन्तमिश्रिताया निर्देशो न कृतः । एतेन यदि जातविगतमिश्रितभाषाद्वयातिरिक्ता जातविगतमिश्रिता स्यात् तदा परित्तानन्तमिश्रितभाषाद्वयातिरिक्ता परीतानन्तमिश्रिताऽपि स्यात् अन्यथा जातविगतमिश्रिताप्यतिरिक्ता न स्याद् विशेषाभावादिति निरस्तम् ।
नन्वेवं सति परीतानन्तकायोभयसंवलिते 'अयं परित्तानन्तसमूह' इति प्रयोगोऽपि न स्यादित्याशंका निराकर्तुमाह प्रत्येकानन्तप्रयोगनिमित्तं तु वैलक्षण्यमस्त्येवेति । न च प्रत्येकानन्तप्रयोगनिमित्तविषयकाध्यवसायविशेषजन्यभाषाया परीत्तानन्तमिश्रितभाषाद्वयातिरिक्तत्वमस्त्विति वाच्यम् इयत्ताऽविषयिण्याः तस्याः सत्यत्वादेवात्राऽनधिकारादित्युक्तोत्तरत्वात्। ननु प्रत्येकानन्तपदप्रवृत्तिनिमित्तस्य सत्त्वे किं मानमित्याशङ्कायामाह अत एवेति = प्रत्येकानन्तपदप्रवृत्तिनिमित्तविशेषस्य सत्त्वादेवेति । चूर्णिकार इति । श्रीजिनदासगणिमहत्तरो न त्वगस्त्यसिंहसूरिः, तत्कृतदशवैकालिकचूर्णौ तादृशपाटस्याऽसत्त्वात् । मज्सपएसे अनंता चेवत्ति । शस्त्राद्यनुपहतत्वादिति हेतोः । अत्र चूर्णौ तु 'मज्सपएसो अणंतो चेव' इति पाठः । अन्यत्राऽपि किञ्चित्पाठान्तरं वर्तते । स्पष्टत्वान्न व्याख्यायते । जीर्णपत्रत्वमिति । अयं भावः 'मूलपत्ताणि जिण्णत्तणेण परिभूयाणि' अत्र तृतीया हेतावुक्ता । ततः जीर्णत्वहेतुकं प्रत्येककायिकत्वमित्यर्थो लभ्यते अनन्तकायिकत्वेन प्रतीयमाने प्रत्येककायिकत्वज्ञाननिमित्तप्रतिपादनात्प्रत्येकानन्तकायवचनप्रयोगनिमित्तं मिश्रभाषा में परित्तअनंतमिश्रित भाषा का प्रयोग नहीं किया गया है।
उभय. इति। इससे अतिरिक्त एक बात यह भी ध्यातव्य है कि प्रत्येकमिश्रितभाषा और अनंतमिश्रितभाषा का निमित्तभूत जो अध्यवसायविशेष है उसके अतिरिक्त कोई ऐसा निमित्त है ही नहीं। जिसकी स्वतंत्र कल्पना करने का कुछ निमित्त ही नहीं है उसकी कल्पना करना कैसे उचित हो सकता है? हाँ, यह हो सकता है कि प्रत्येककाय और अनन्तकाय के समूह में 'यह प्रत्येककाय और अनन्तकाय का समूह है' ऐसा प्रयोग हो। मगर इसके अस्वीकार का कोई कारण नहीं है, क्योंकि प्रत्येककाय और अनन्तकाय के प्रयोग में निमित्तभूत वैलक्षण्य तो समूह में होता ही है। जिसका विलक्षण निमित्त हो उसका कार्य विलक्षण होने का इन्कार तो कोई भी बुद्धिमान नहीं कर सकता है। प्रत्येककाय और अनंतकाय के समूह में 'यह प्रत्येककाय और अनंतकाय है' इस वचनप्रयोग का निमित्त तो मान्य है ही । इसीलिए तो चूर्णिकार श्रीजिनदासगणिमहत्तर ने भी श्रीदशवैकालिकसूत्र चूर्णि में कहा है कि -
* चूर्णिकार का वचन *
अणंत. इति। अनन्तमिश्रित भाषा वह है कि जब कोई पुरुष अनंतकायिक मूले के पौधे को देख कर या अन्य कुछ देख कर बोले कि 'यह सब अन्न्तकाय है'। इस भाषा को अनन्तमिश्रित कहने का कारण यह है कि अनंतकाय मूले के पत्ते बडे होने से
१. अनन्तमिश्रिता यथा कश्चिन्मूलकस्थूडं दृष्ट्वाऽन्यं वा कञ्चित् तादृशं भणेत् यथा सर्व एष अनन्तकाय इति । तस्य मूलकपत्राणि जीर्णत्वेन परिभूतानि (परित्तीभूतानि) केवलं तु जलसिंचनगुणेन केचित्तस्य किशलयाः प्रादुर्भूताः । अतोऽनन्ताः परित्तेन मिश्रिता भण्यन्ते । प्रत्येकमिश्रिता नाम यथा अभिनवोत्खातं मूलकं कश्चित्परिम्लानमिति कृत्वा भणेत् यथा सर्व एषः प्रत्येकः । तत्राऽन्ताः प्रत्येकीभूता मध्यप्रदेशा अनन्ता एव । एषा प्रत्येकमिश्रितेति । २. 'कायोत्ति' एवं चूर्णो पाठो लभ्यते । ३. परित्तीभूआ ण एवं मुद्रितप्रतौ पाठः । ४. 'पादुब्भूता' इति चूर्णौ पाठो लभ्यते । ५. 'परित्तत्तेण' इति पाठः चूर्णौ लभ्यते । ६. 'पएसो अणंतो इति पाठः सांप्रतं चूर्णौ लभ्यते मुद्रितप्रतौ तु 'पएसा अणंता' इति ।