________________
* उपनिषदादीनामप्रामाण्याविष्करणम् *
परप्रतारणार्थं कालासुरादिकृतत्वेन मायानिःसृतायामन्तर्भवन्तीत्यवधेयम् ९ ।। ५० ।। उक्ताऽऽख्यायिकानिःसृता । अथोपघातनिःसृता
माह
२११
"जं उपघायपरिणओ भासइ वयणं अलीअमिह जीवो । उवघायणिस्सिआ सा, जहा अचोरेवि चोरोत्ति । ।५१ ।।
आदिशब्देन निषेधादेर्ग्रहणम् । परप्रतारणार्थमिति सगरसुलसादिप्रतारणकृते। अनेन वेदादीनां प्रामाण्यं निराकृतम् । वेदानां नैयायिकैरीश्वरकर्तृकत्वं. मीमांसकैर्नित्यत्वं सुगतैश्चाष्टककृतत्वमभ्युपगम्यते । तन्निरासार्थमाह कालासुरादिकृतत्वेनेति । मधुपिङ्गजीवमहाकालाख्यासुरादिकर्तृकत्वेनेत्यर्थः । प्रकृते त्रिषष्टिशलाकापुरुषचरित्रे 'मधुपिङ्गोऽप्यपमानात् कृत्वा बालतपो मृतः । महाकालाभिधः षष्टिसहस्रोऽसुरोऽभवत् ।। (त्रि. श. ७/२/४७४ ) इत्यादितः "सगरं सुलसायुक्तं स जुहावाऽध्वरानले । कृतकृत्यो जगामाऽथ महाकालः स्वमाश्रयम् ।। ( त्रि. श. ७ / २ / ५०० ) इत्यन्तमुक्तं दृष्टव्यम्।
-
एवञ्च यज्ञेषु हिंसायाः प्रतिपादकस्य भागवतस्य यज्ञेषु हन्यमानपशूनां स्वर्गमनस्य प्रतिपादकस्य विष्णुपुराणस्य, यज्ञवधार्थं पशुनिर्माणस्य प्रतिपादकस्य मनुस्मृतिवचनस्य, एकपुत्रहोमे शतपुत्रोत्पादविषयकस्य "लोमेशोपदेशस्य, श्राद्धमांसाऽभक्षकस्य पशुलोमप्रमितवर्षस्थितिनरकगमनप्रतिपादकस्य ' वसिष्टस्मृतिवचनस्य, श्राद्धमांसभक्षणे निर्दोषत्वस्य प्रतिपादकस्य याज्ञवल्क्यस्मृतिवचनस्य, यज्ञश्राद्धादौ मांसाऽभक्षकस्याऽब्राह्मणत्वप्रतिपादकस्य व्यासस्मृतिवचनस्य, दशरथश्राद्धे ऋषीणां मृगादिमांसभक्षकत्वप्रतिपादकस्य 'पद्मपुराणवचनस्य, मांसादितः पितृतृप्तिप्रतिपादकस्य “मत्स्यपुराणवचनस्य ब्राह्मणसम्प्रदानकभार्यादानप्रतिपादकस्य 'भविष्यपुराणवचनस्य, 'स्त्रियमध उपासीत' (बृ. आ. उप. छ /४/२) इति बृहदारण्यकोपनिषद्वचनस्य, 'चतुर्गामी भवेत् विप्रः' इत्यनेन विप्रस्य चतुर्वर्णनारीगामित्वविधायकस्य "वराहपुराणवचनस्य च अज्ञजनप्रतारणकृते कृतत्वेन मायानिःसृतायामन्तर्भावः कर्तव्य इति दिक् ।। ५० ।।
रामायण आदि लौकिक शास्त्रों में अनेक वचन ऐसे हैं कि जो अयुक्त हैं- असंभवित हैं। अतः वैसी भाषा आख्यायिकानिःसृत मृषाभाषा कही जाती है।
वेदाद. इति । यहाँ यह बात ध्यान देने योग्य है कि ऋग्वेद, अथर्ववेद आदि लौकिक शास्त्र भी अनेक असंबद्ध वचनों से घटित है फिर भी उन वेदादि शास्त्रों का आख्यायिकानिःसृत भाषा में समावेश नहीं होता है किन्तु मायानिःसृत मृषाभाषा में समावेश होता है। इसका कारण यह है कि वेदों की रचना कालासुर ने की है जिसका उद्देश दूसरों को ठगने का था । माया से निःसृत होने से वेद आदि के 'पशुं आलभेत इत्यादि सावद्य विधिवाक्य, पापप्रवर्तक विधिवचनादि मायानिःसृत मृषा भाषा में प्रविष्ट होते हैं, न कि आख्यायिकानिःसृत भाषा में इस बात का ख्याल रखना आवश्यक है ।।५० ।।
आख्यायिकानिःसृत भाषा का निरूपण हुआ । अब ग्रंथकार श्री ५१वीं गाथा से असत्यभाषा के अंतिम भेदरूप उपघातनिःसृत भाषा का निरूपण करते हैं।
-
-
गाथार्थ :- उपघात में परिणत हो कर जो झूठ वचन कहा जाता है, जैसे कि जो चोर नहीं है उसे भी तू चोर है इत्यादिवचन, वह उपघातनिःसृत मृषाभाषा है । ५१ ।
१. भागवतस्कंध - ४, अध्याय- ४ पत्र - १०, श्लो- ६. २. मनुस्मृति - अध्याय -५, श्लो - ३९-४०
३. महाभारतवनपर्व अध्याय १२७ ४. वसिष्टस्मृति - पृ. ४३, श्लो- ३१
५. एवं दशधाऽसत्या, भाषोपदर्शिता यथासूत्रम् । एषाऽपि भवति सत्या, प्रशस्तपरिणामयोगेन । । ५२ ।। ६. याज्ञवल्क्यस्मृति अध्याय- १, श्लो-१६९ ७. ७ व्यासस्मृति - पृ. २५, श्लो-५६ ८ पद्मपुराण-प्रथमसृष्टिखंड अध्या. ३३, पत्र- ९७, श्लो ७७ / ८४. ९. मत्स्यपुराण-अध्या-१७, श्लो ३०/३६. १०. भविष्यपुराण- पृ. ५५७ ११ वराहपुराण- अध्या. ६८।