________________
१६८ भाषारहस्यप्रकरणे - स्त.१. गा. ३५
०कूरगडुकजीवकथा ० मण्डूकिकाक्षपकः कूरगडुकजीव इति ध्येयम्। एतत्कथानकोपदर्शनं च श्रोतृणां संवेगस्थैयार्थम्। इदं च चरणकरणानुयोग
कूरगडुकजीव इति। अत्र चूर्णिच्छाया प्राय एवम्-एक क्षपकः शिष्येण समं भिक्षाचर्यां गतः 'तेन तत्र मण्डूकिका मारिता, शिष्येण भणितम्- मण्डूकिका त्वया मारिता । क्षपको भणति- रे दुष्टशैक्ष! चिरमृतैवैषा । तौ गतौ । पश्चाद्रात्रावावश्यके आलोचयतां क्षपकेण सा मण्डूकिका नालोचिता तदा शिष्येन भणितं-'क्षपक! तां मण्डूकिकामालोचय क्षपको रुष्टस्तस्मै शिष्याय, श्लेष्ममल्लकं गृहीत्वोद्धावितः अस्त्र्यालये स्तम्भे आपतितो वेगेनाऽऽयान् मृतश्च ज्योतिष्केषूत्पन्नः ततश्च्युत्वा दृष्टिविषाणां कुले दृष्टिविषः सर्पो जातः । तत्र चैकेन परिहिण्डमानेन नगरे राजपुत्रः दष्टः । आहितुण्डकेन विद्यया सर्वे सर्पा आहूताः, मण्डले प्रवेशिता भणिताः - अन्ये सर्वे गच्छन्तु, येन पुना राजपुत्रो दष्टः स तिष्ठतु। सर्वे गता एकः स्थितः। स भणित:- 'विषमापिब अथवाऽत्राग्नौ निपत । स चागन्धनः । सर्पाणां किल द्वे जाती- गन्धनाऽगन्धना च। तेऽगन्धना मानिनः । तदा सोऽग्नौ प्रविष्टः । न च तेन तद्वान्तं प्रत्यापीतं राजपुत्रोऽपि मृतः । पश्चाद्राज्ञा रुष्टेन घोषितं राज्ये- 'यो मम सर्पशीर्षमानयेत् तस्मायहं दीनारं ददामि' | पश्चाल्लोको दीनारलोभेन सर्पान् मारयितुमादृतः । तच्च कुलं यत्र स क्षपक उत्पन्नस्तज्जातिस्मरं रात्रौ हिण्डते, दिवसे न हिण्डते- मा जीवान् ध्राक्षमिति कृत्वा । अन्यदाऽहितुण्डकैः सर्पान् मार्गयद्भी रात्रिंचरेण परिमलेन तस्य क्षपकसर्पस्य बिलं दृष्टमिति द्वारे तस्य स्थितः । औषधित आह्वयति। चिन्तयति- 'दृष्टो मया कोपस्य विपाकः ततोऽहमभिमुखो निगच्छामि तदा धक्ष्यामि'| ततः पुच्छेनादृतो निःस्फेटितुं यावन्निस्फिटति तावदेवाहितुण्डिकश्छिन्नत्ति, यावच्छीर्षं छिन्नं मृतश्च । स सर्पो देवतापरिगृहीतः, देवतया राज्ञे स्वप्नं दत्तं- 'मा सर्पान् मारय, पुत्रस्ते नागकुलादुद्वर्त्य भविष्यति तस्य दारकस्य नागदत्तनाम कुर्याः' । स च क्षपकसर्पो मृत्वा तेन प्राणपरित्यागेन तस्यैव राज्ञः पुत्रो जातः, दारके जाते नाम कृतं नागदत्तः । क्षुल्लकः स प्रव्रजितः। स च किल तेन तिर्यगनुभावेनातीव क्षुधालुः, प्रभातवेलायामेवाद्रियते भोक्तुं यावत्सूर्यास्तमयनवेला उपशान्तो धर्मश्रद्धिकश्च । तस्मिन् गच्छे चत्वारः क्षपकास्तद्यथा - चातुर्मासिकस्त्रैमासिको द्वैमासिक एकमासिक इति । रात्रौ देवता वन्दितुमागता । चातुर्मासिकः प्रथमः स्थितः, तस्य पुरतः त्रैमासिकः, तस्य पुरतो द्वैमासिकः, तस्य पुरत एकमासिकः, तेषां च पुरतः क्षुल्लकः । सर्वान् क्षपकानतिक्रम्य तया देवतया क्षुल्लको वन्दितः। पश्चात्ते क्षपका रुष्टाः, निर्गच्छन्ती च गृहीता चातुर्मासिकेन प्रान्ते भणिता चाऽनेन-कटपूतने! अस्माँस्तपस्विनो न वन्दसे, एनं कूरभाजनं वन्दसे । सा देवता भणति- 'अहं भावक्षपकं वन्दे, न पूजासत्कारपरान् मानिनश्च वन्दे । पश्चात्ते क्षुल्लकाय तेनाऽमर्षं वहन्ति। देवता चिन्तयति- 'मैते क्षुल्लकं निर्भर्त्सयिष्यन्ति ततः सन्निहितैव तिष्ठामि, तदाऽहं प्रतिबोधयिष्यामि'। द्वितीयदिवसे च क्षुल्लकः सन्दिश्य गतः पर्युषिताय प्रत्यागत आलोच्य चार्तुमासिकक्षपकं निमन्त्रयति । तेन पतद्ग्रहे तस्य श्लेष्म निष्ठ्यूतम् । क्षुल्लको भणति- 'मिथ्या मे दुष्कृतं यत्तुभ्यं मया श्लेष्ममल्लको न दत्तः' | तत्तेनोपरित एव स्फेटयित्वा श्लेष्ममल्लके क्षिप्तम् । एवं यावत्त्रिमासिकेन यावदेकमासिकेन निक्षिप्तं, तत्तेन तथैव स्फेटितम् । बलात्कारं कृत्वा लम्बनान् गृह्णामीति कृत्वा तेन क्षपकेन क्षुल्लको बाहौ गृहीतः, तदा तेन तस्य क्षुल्लकस्याऽदीनमनसो विशुध्यमानपरिणामस्य लेश्याभिर्विशुध्यमानाभिस्तदावरणीयानां कर्मणां क्षयेण केवलज्ञानं समुत्पन्नं तदा सा देवता भणति-कथं यूयं वन्दितव्या येनेत्थं क्रोधाभिभूतास्तिष्ठथ? तदा ते क्षपकाः संवेगमापन्नाः, "मिथ्या मे दुष्कृतमिति अहो बाल उपशान्तचित्तोऽस्माभिः पापकर्मभिराशातितः।" एवं तेषामपि शुभाध्यवसायेन केवलज्ञानं समुत्पन्नम्। उपनयोऽत्र क्रोधादेरप्रशस्तभावाद् दुर्गतेरपाय इति।
संवेगस्थैयार्थमिति। तदुक्तं नियुक्ती - सिक्खगअसिक्खगाणं संवेगथिरट्ठयाइ दोण्हंपि। दव्वाईया एवं दंसिज्जंते अवायाउ।। (द.वै.नि. ५७) अत्र हारिभद्रवृत्तौ 'संवेग मोक्षसुखाभिलाषः स्थैर्यं पुनः अभ्युपगतापरित्यागः। ततश्च कथं नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्याताम्? द्रव्यादिषु चाप्रतिबन्ध' इति व्याख्यातम् । अगस्त्यसिंह