________________
२१८
गुरुतत्त्वसिद्धिः
तथाअज्ज वि दयसंपन्ना छज्जीवनिकायरक्खणुज्जुत्ता । दीसंति तवस्सिगणा विगहविरत्ता सुईजुत्ता ।।१८१।। एषाऽपि स्पष्टा। नवरं श्रुतिः स्वाध्यायस्तेन युक्ताः ।।१८१।। तथाअज्जवि दयखंतिपयट्ठियाइं तवनियमसीलकलियाई । विरलाइं दूसमाए दीसंति सुसाहुरयणाइं ॥१८२।। प्रतीतार्था ।।१८२।। ततश्चइय जाणिऊण एयं मा दोसं दूसमाइ दाऊण । धम्मुज्जम पमुच्चह अज्जवि धम्मो जए जयइ ।।१८३।। निगदसिद्धा। नवरम्, एतदिति चारित्राऽस्तित्वम् ।।१८३।। एवमनेकधा चारित्राऽस्तित्वं प्रतिष्ठाय निगमनमाहुःता तुलियनियबलाणं सत्तीइ जहागमं जयंताणं । संपुन्नच्चिय किरिया दुप्पसहताण साहूणं ।।१८४।। सुगमा । नवरम्, संपूर्णव क्रिया, न पूर्वयतिभ्यो न्यूना, स्वसार्मथ्यतुलनायाः समानत्वात् ।।१८४ ।।
܀܀܀
(५०) पृ. १३३ पं. १
__ (भगवतीसूत्र) __भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धित्वात्तेषामिति प्रश्नयन्नाह - ___अस्थि णं भंते ! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, हंता अस्थि, कहनं भंते ! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, गोयमा ! तेहिं तेहिं नाणंतरेहिं दसणंतरेहिं चरित्तंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहि भंगतरेहिं णयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसमावना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेइंति ।
_ 'अत्थि ण'मित्यादि काक्वाऽध्येयम् ‘अस्ति' विद्यतेऽयं पक्षः-यदुत 'श्रमणाः' व्रतिनः, अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह-'निर्ग्रन्थाः' सबाह्याभ्यन्तरग्रन्थानिर्गताः, साधव इत्यर्थः, 'णाणंतरेहिंति एकस्माज्जानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः संबन्धः, एवं सर्वत्र, तेषु चैवं शङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःपर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चागमे मनःपर्यायज्ञानमिति