________________
२१४
गुरुतत्त्वसिद्धिः णाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो । तिण्हपि समाजोगे मोक्खो जिणसासणे भणिओ ।।१०३।।
(हा०) व्याख्या-तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानं, तच्च प्रकाशयतीति प्रकाशकं, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते-शोधयतीति शोधकं, किं तदिति आह-तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तुत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् (पा. ३-३-९४) आगन्तुककर्मकचवरनिरोध इति हृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरागमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ?- 'त्रयाणामपि' ज्ञानादीनां, किंविशिष्टानां ?-निश्चयतः क्षायिकानां, न तु क्षायिकौपशमिकानामिति, 'समायोगे' संयोगे 'मोक्षः' सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्, 'भणितः' उक्तः । आह-'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रति-पादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ।।१०३।।
(४४/२) पृ. १२२ पं. २
(आवश्यकनियुक्ति मलयगिरिसूरि टीका) _ (मलय०) ननु ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ?, किमविशेषेण शिबिकोद्वाहकवत्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवत्, उच्यते, भिन्नस्वभावतया, यत आह -
णाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो । तिण्हपि समाजोगे मोक्खो जिणसासणे भणिओ ।।१०३।।
(मलय०) इह तथा किञ्चिदुद्घाटद्वारं बहुवातायनजालकरूपच्छिद्रं वाताकृष्टादि-प्रचुररेणुकचवरपूरितं शून्यगृह, तत्र चैव वस्तुकामः कोऽपि तत् शुशोधयिषुरवातायनजालकानि सर्वाण्यपि बाह्यरेणुकचवरप्रदेशनिषेधार्थं स्थगयति, मध्ये च प्रदीपं प्रज्वलयति, पुरुषं च कचवराद्याकर्षणाय व्यापारयति, तत्र प्रदीपो रेण्वादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारादिस्थगनं बाह्यरेण्वादिप्रवेशनिषेधेन, पुरुषस्तु रेण्वाद्याकर्षणात् तच्छोधनेन, एवमिहापि जीवापवरक उद्घाटितानवद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरापूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्त्तते, तत्र ज्ञायतेऽनेनेति ज्ञानं, तच्च प्रकाशयतीति प्रकाशकं, ज्ञानं प्रकाशकत्वेनोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवदिति भावः, क्रिया तु तपःसंयमरूपत्वादित्थमुपकुरुते, शोधयतीति शोधकं, किन्तदित्याह-तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः, तत् शोधकत्वेनोपकुरुते, तत्स्वभावत्वात्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावेऽल्प्रत्ययः, आश्रवद्वारविरमणमिति यावत्, चशब्दः पृथग्ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकार