________________
प्रतिभाशds ला1-3 / Gls-११ लोार्थ :
અહીં આ વાક્યમાણ, અમારા હૃદયમાં સ્કુરે છે. દ્રવ્યસ્તવમાં વિધિના વૈપુણ્યથી જે દૂષણ छ,duमति43 646d=नाशथायछ, मे प्रमायोज्ञापनपsudj-दूपष्टidj, छ; જે કારણથી અવિધિથી યુક્ત પણ ઉક્ત ક્રિયા=વૈગમ્યવાળી ક્રિયા, વ્યવધાનથી=પરંપરાએ ભક્તિ વડે જ મોક્ષ આપનારી છે. વળી (આ અર્થમાં) મૃતધર એવા શિષ્ટ પ્રમાણ છે. I૬૧. टीs:____ 'अत्राऽस्माकम्' इति :- अत्रोक्तपूर्वपक्षेऽस्माकमिदं हृदि स्फुरति, यत् द्रव्यस्तवे दूषणं तद्विधेवैगुण्येन भक्तिमात्रैकतानतासम्भविविधिवैकल्येन, प्राक्कालसम्भव्यारम्भदोषस्य फले समारोपे गृहस्थाश्रमसम्भविदोषस्य चारित्रकाले समारोपेण तत्शोधने तत्रापि कूपदृष्टान्ताभिधानापत्तिरिति प्राचीनपक्षेऽस्वरसः, स्नानादावारम्भश्चित्ते लगतीत्याभिमानिक आरम्भदोषस्त्वधिकारिणो न सङ्गतः, अभिमानस्य भावदोषत्वादल्पदोषस्य च द्रव्यरूपस्यैवेष्टत्वादभिमानस्य विपर्ययरूपदोष-स्याल्पस्य वक्तुमशक्यत्वादुपरितनानां तत्र दोषत्वाभिमानस्तु न विपर्ययः, स्याद्वादमार्गे वस्तुन आपेक्षिकत्वात्, स्थविरकल्पिकस्य यो मार्गः स जिनकल्पिकापेक्षया न मार्ग इतिवदुपपत्तेः, तदपि विधिवैकल्यप्रयुक्तं द्रव्यस्तवदूषणमपि भक्त्या अधिकतरभक्तिभावेन, उपहतं भवतीति हि ज्ञापनं कूपज्ञातस्य फलं-कूपज्ञातेनैतद् ज्ञाप्यत इत्यर्थः, ___पूजाविधिवैगुण्यस्थलीयेऽप्युपलेपे भक्तिप्राबल्यस्य प्रतिबन्धकत्वं कूपे खन्यमाने कर्दमोपलेपादाविव मन्त्रविशेषस्येति भावः, यतोऽविधियुतापि क्रिया व्यवधानेन=अतिपारम्पर्येण, भक्त्यैव कृत्वा मोक्षदोक्ता, (श्रुतधराः) शिष्टाः पुनरत्रार्थे प्रमाणं शिष्टैकवाक्यतया माभूदत्र स्वकपोलकल्पितत्वमात्रमिति भावः इत्थं चाभयदेवसूरिवचनानामुक्तानां शेषाणां च भक्तिमात्रप्रयुक्तपूजैव विषय इति सर्वोऽपि प्राचीननवीनवा परिष्कृतो भवति । ___ इत्थं विवेचका एव सुज्ञानाः सुप्ररूपकाः, शङ्कितार्थे पुनः सूत्रे व्याख्याते भक्तिरेव का ? उक्तं च सम्मतो गन्धहस्तिना
‘ण हु सासणभत्तीमित्तएण सिद्धंतजाणगो होइ । ण वि जाणगोवि समए पन्नवणानिच्छिओ णेयो' ।। त्ति ।। (काण्ड-३ गा. ६३)।। न परीक्षां विना स्थेयं प्राचीनप्रणयात्परम् । अविमृश्य रुचिस्तत्र निरस्ता गन्थहस्तिना । तथा'जनोऽयमन्यस्य मृतः पुरातनः पुरातनैरेव समो भविष्यति । पुरातनेष्वित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् ।। (सिद्धसेनीयद्वात्रिंशिका-६/५) ।