________________
પ૮
धर्मपरीक्षा नाग-२/गाथा-४०
टीs:
अपि च ‘इदं मरीचिवचनमुत्सूत्रमिधे' इति वदता मूलत एव जैनी प्रक्रिया न ज्ञाता, यतः सूत्रोत्सूत्रव्यवस्था तावच्छूतभावभाषामाश्रित्य क्रियते सा च सत्यासत्यानुभयरूपत्वात् त्रिविधैव दशवैकालिकनियुक्त्यादिसिद्धान्ते प्रतिपादिता पराभिप्रायेण तु मिश्ररूपाया अपि तस्याः सिद्धौ भगवद्भद्रबाहूक्तविभागव्याघातप्रसङ्ग इति न किञ्चिदेतद् इत्थं च मरीच्यपेक्षया मरीचेरनुत्सूत्रमेवेदं वचनं कपिलापेक्षया च विपर्यासबुद्धिजनकत्वज्ञानेऽपीत्थमुच्यमानमेतद्वचनं ममोत्सूत्रमिति परिज्ञानाभावात्कथञ्चिदनाभोगहेतुकमुत्सूत्रमिति वदतो माता च मे वन्ध्या चेति न्यायापात इति द्रष्टव्यम्, किञ्च तस्योत्सूत्राभोगो नासीदित्यपि दुःश्रद्धानं, व्युत्पत्रस्य तस्य तादृशास्पष्टवचनेऽप्युत्सूत्रत्वप्रत्ययावश्यकत्वाद् न च साधुभक्तस्य तस्य तथोत्सूत्रभाषणमसंभव्येवेति शङ्कनीयं, कर्मपरिणतेर्विचित्रत्वाद् अस्पष्टत्वं च तत्राभिमतानभिमतविधिनिषेधावधारणाऽक्षमत्वलक्षणं नोत्सूत्राभोगाभावात्, किन्त्वनभिमतनिषेधांशे देशविध्यारोपप्रयोजकतथाविधसङ्कलेशात्, अत एव स्फुटाऽप्ररूपणमप्यस्यास्पष्टताख्यजातिविशेषशालिन्युत्सूत्रप्ररूपण एव पर्यवस्यति । तदुक्तं पाक्षिकसप्ततिकावृत्तौ - "उत्सूत्रप्ररूपणायाः संसारहेतुत्वात्,” यथोक्तं - फुडपागडमकहंतो जहठ्ठियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरामरणमहोअही आसि ।। त्ति । (उप.माला १०६) । किञ्च इहत्ति' देशविरत्यभिप्रायेणैवोक्तमिति कुतो निर्णीतम् ? उपदेशमालावृत्तौ 'कपिल ! इहान्यत्रापि' मत्संबंधिनि साधुसंबन्धिनि चानुष्ठाने धर्मोऽस्तीति भणनात् न च तत्र 'साधुसम्बन्धिनि' इति भणनेन 'मत्संबंधिनि देशविरत्यनुष्ठाने धर्मोऽस्ति' इत्येवाभिप्राय इति वाच्यं, जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते ।।
इति हैमवीरचरित्रवचनात्स्वमार्गेऽपि तेन धर्माभिधानात् स्वमार्गश्च तस्य स्वपरिगृहीतलिङ्गाचारलक्षणं कापिलदर्शनमेव तत्र च मार्गे नियतकारणताविशेषसंबन्धेन धर्ममात्रमेव नास्ति कुतो देशविरत्यनुष्ठानम् ? इत्युत्सूत्रमेवैतदिति अनियमाभिप्रायेण त्वस्योत्सूत्रपरिहारेऽन्यलिङ्गादिसिद्धाभ्युपगमाच्चारित्रादेरपि तत्राभ्युपगमापत्तिरिति न किञ्चिदेतत् । एतेन - 'कविला इत्थंपि' त्ति 'अपि' शब्दस्यैवकारार्थत्वानिरुपचरितः खल्वत्रैव साधुमार्गे 'इहयंपि' त्ति स्वल्पस्त्वत्रापि विद्यते, स ह्येवमाकर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तितः - इति ज्ञानसागर