________________
3०४
ધર્મપરીક્ષા ભાગ-૨ | ગાથા-૫૪
ण य घायउत्ति हिंसो णाघायंतोत्ति णिच्छियमहिंसो । ण विरलजीवमहिंसो ण य जीवघणंति तो हिंसो ।।१७६३ ।। अहणतो वि हु हिंसो दुट्ठत्तणओ मओ अहिमरोव्व । बाहिंतो ण वि हिंसो सुद्धत्तणओ जहा विज्जो १७६४ ।।
न हि घातक इत्येतावता हिंस्रः, न चाऽघ्नन्नपि निश्चयनयमतेनाहिंस्रः, नाऽपि विरलजीवं इत्येतावन्मात्रेणाहिंस्रः, न चापि जीवघनं इत्येतावता च हिंस्र इति । किं तर्हि? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽजनपि हिंस्रो मतः बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वैद्य इति ।।१७६३-१७६४।।
जन्नप्यहिंस्रोऽघ्नन्नपि च हिंस्र उक्तः, स इह कथंभूतो ग्राह्यः? इत्याह - पंचसमिओ तिगुत्तो नाणी अविहिंसओ ण विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ।।१७६५ ।।
पञ्चभिः समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपतद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायं, अशुभपरिणामत्वाद्, भाव(बाह्य)जीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन, संपत्तिर्भवतु मा भूद्वा, से तस्य साध्वादेः हिंसकत्वे तस्य अनैकान्तिकत्वादिति ।।१७६५ ।। कुतस्तस्या अनैकान्तिकत्वं? इत्याह - असुहो जो परिणामो सा हिंसा सो उ बाहिरणिमित्तं । कोवि अवेक्खेज्ज ण वा जम्हा णेगंतियं बझं ।।१७६६।।
यस्मादिह निश्चयनयतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते स च बाह्यं सत्त्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षोऽपि भवेत्, यथा तन्दुलमत्स्यादीनाम्, यस्मादनैकान्तिकमेव बाह्यनिमित्तं, तत्सद्भावेप्यहिंसकत्वात्, तदभावेऽपि च हिंसकत्वादिति ।।१७६६।।
नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति? उच्यते - कश्चिद् भवति, कश्चित्तु न, कथं? इत्याह -
असुहपरिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा । जस्स उ ण सो णिमित्तं संतो वि ण तस्स सा हिंसा ।।१७६७।। ततस्तस्माद् यो जीवाबाधोऽशुभपरिणामस्य हेतुरथवाऽशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवाबाधो-जीवघातः, स एव हिंसेति मतं तीर्थकरगणधराणाम्, यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं, स जीवाबाधः सन्नपि तस्य साधोर्न हिंसेति ।।१७६७ ।।