SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ૨૯૬ ધર્મપરીક્ષા ભાગ-૨ | ગાથા-૫૪ Rell सयित्त पाए पीवामi ugl, मूलच्छेज्जो भूलछेध ष-भूमप्रायश्यितथी विशु ४२५ योग्य होष, हुज्जाहि-प्राप्त थाय, ण . ||५४|| गाथार्थ : જો જલજીવોના અનાભોગને કારણે નદી ઊતરવામાં તને દોષ નથી તારા મતે સાધુને દોષ નથી, તો તેના પાનમાં પણ સાધુને નદીના સચિરપાણીને પીવામાં પણ, મૂલછેધ=મૂલપ્રાયશ્ચિતથી વિશુદ્ધિ કરવા યોગ્ય, દોષ પ્રાપ્ત થાય નહીં. પિઝા टी : जलजीवाणाभोगत्ति । नद्युत्तारे जलजीवानाभोगाद् यदि तव न दोषः, तर्हि तस्य जलस्य पानेऽपि स दोषो मूलच्छेद्यो मूलप्रायश्चित्तविशोध्यो न भवेत्, न हि नदीमुत्तरतो जलजीवानाभोगस्तत्पाने च तदाभोग इति त्वया वक्तुं शक्यते, तदनाभोगस्य त्वया केवलज्ञाननिवर्त्तनीयत्वाभ्युपगमात्, तथा चोभयत्रैव मिथ्यादुष्कृतप्रायश्चित्तशोध्यमेव पापं स्यात्, ननु (न तु) ज्ञात्वा जलपानेऽपि मूलच्छेद्यम्, तच्च श्रुतपरंपराविरुद्धं, इत्याभोगविषयतापि जलजीवानामवश्यं वक्तव्या, प्रायश्चित्तभेदस्तु यतनाऽयतनाविशेषादिति यदि च 'ज्ञात्वा जलपाने न जलजीवाभोगात्प्रायश्चित्तविशेषः, किन्तु निःशुकत्वादि'त्युच्यते तर्हि स्थूलत्रसाभोगोऽप्युच्छिद्येत, तद्वधेऽपि निःशुकताविशेषादेव पातकविशेषोपपत्तेः, शास्त्रे त्वाभोगाऽनाभोगावकर्त्तव्यत्वज्ञानतदभावरूपावेवोक्तौ । तदुक्तं पञ्चाशकवृत्तौ - 'तत्राभोगोऽकर्त्तव्यमिति ज्ञानं अनाभोगस्त्वज्ञानमिति तौ चोभयविराधनायामपि सम्भवत एव, प्रतिपादितं च प्रायश्चित्तमाभोगानाभोगभेदात् पृथिव्यादिविराधनायामपि पृथगेवेति न किञ्चिदेतत् । एतेन यदुच्यते "विनापवादं ज्ञात्वा जीवघातको यद्यसंयतो न भवेत् तहसंयतत्वमुच्छिन्नसंकथं भवेद्" इत्यादि परेण तदपास्तं, अपवादमन्तरेणापि सामान्यसाधूनामपवादपदानधिकारिणां चोत्कृष्टचारित्रवतां प्रतिमाप्रतिपत्रजिनकल्पिकादीनां नद्युत्तारादावाभोगपूर्वजीवविराधनायाः साधितत्वात् नद्युत्तारश्च जिनकल्पिकादीनामपि 'जत्थत्थमेइसूरो०' इत्यादि प्रवचनेषु दिवसतृतीयपौरुष्यतिक्रमे नद्याद्युत्तरतस्ते जलात्पदमात्रमपि बहिर्न निक्षिपन्ति, किन्तु तत्रैव तिष्ठन्ति' इत्यादिभणनेन प्रतीत एव, सोऽप्यापवादिकश्चेत्, तर्हि विहाराऽऽहारादिक्रियास्वौत्सर्गिकीषु जीवविराधनया योगसमुत्थया जिनकल्पिकादीनामसंयतत्वप्रसक्तेर्वज्रलेपत्वमेव, तस्या योगावश्यम्भावित्वस्य प्रवचनादेव निश्चयाद, अङ्गीकृतं चैतत्परेणापि, यदुक्तं तेन 'यत्रानुष्ठाने आरम्भस्तज्जिनैः प्रतिषिद्धमेव ? उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव ?' इति लुम्पकीयपक्षद्वयदूषणार्थं ग्रन्थान्तरे, आद्यपक्षे साधूनां विहाराहारनीहारनद्युत्तारप्रतिक्रमणप्रतिलेखनोपाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे संपन्ने तवैव गल
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy