________________
233
धर्मपरीक्षा भाग-२ | गाथा-५१ किरिए सिय अकिरिए त्ति ।” एतवृत्तिर्यथा-“परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाहजीवेणमित्यादि । ओरालियसरीराओ त्ति औदारिकशरीरात्परकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः? इति प्रश्नः । उत्तरं तु सिय तिकिरिए त्ति यदैकजीवोऽन्यस्य पृथिव्यादेः सम्बन्ध्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीप्राद्वेषिकीनां भावाद्, एतासां च परस्परेणाविनाभूतत्वात्-‘स्यात् त्रिक्रियः' इत्युक्तं, न पुनः ‘स्यादेकक्रियः', 'स्याद् द्विक्रियः' इति । अविनाभावश्च तासामेवं - अधिकृतक्रिया ह्यवीतरागस्यैव, नेतरस्य, तथाविधकर्मबन्धहेतुत्वाद् अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे च कायिकीसद्भावः । उक्तं च प्रज्ञापनायामिहार्थे - ‘जस्स णं जीवस्स काइआ किरिया कज्जइ तस्स अहिगरणिया किरिया णियमा कज्जइ जस्स अहिगरणिया किरिया कज्जइ तस्स वि काइया किरिया णियमा कज्जइ' इत्यादि । तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया भवति । यदाह'जस्स णं जीवस्स काइया किरिया कज्जइ तस्स पारियावणिया सिय कज्जइ सिय णो कज्जइ' इत्यादि । ततश्च यदा कायव्यापारद्वारेणाद्यक्रियात्रय एव वर्त्तते, न तु परितापयति न चातिपातयति, तदा त्रिक्रिय एवेति अतोऽपि 'स्यात् त्रिक्रियः' इत्युक्तम्, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावाद् यदा त्वतिपातयति तदा पञ्चक्रियः, आद्यक्रियाचतुष्कस्य तत्रावश्यंभावाद् । उक्तं च-“जस्स पारिआवणिया किरिया कज्जइ तस्स काइया णियमा कज्जइ" इत्यादि । अत एवाह-“सिय चउकिरिए सिय पंचकिरिए" त्ति । तथा 'सिय अकिरिए त्ति वीतरागावस्थायामाश्रित्य, तस्यां हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति ।”
एतद्वचनानुसारेण ह्येतत्प्रतीयते यद्-आरंभिकीक्रिया प्रमादपर्यन्तमेव, न तु जीव विराधनायां सत्यामप्युपरिष्टादपि प्राणातिपातक्रिया च प्रद्वेषेण प्राणातिपातकाल एव, न च पृथिव्यादीनां तदसंभवः, तत्कृताकुशलपरिणामनिवृत्त्यैव तत्प्रतिपादनादिति साप्यप्रमत्तस्य न संभवति न चअवीतरागकायस्याधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायिकीक्रियासद्भावे त्रिक्रियत्वस्य नियमप्रतिपादनाद् एवंभूतस्याप्रमत्तस्यापि प्राणातिपातव्यापारकाले प्राणातिपातिकीक्रियासंभव इति वाच्यं, कायिकीक्रियाया अपि प्राणातिपातजनकप्रद्वेषविशिष्टाया एव ग्रहणाद्, इत्थमेवाद्यक्रियात्रयनियमसंभवात् ।
तदुक्तं प्रज्ञापनावृत्तौ-“इह कायिकीक्रिया औदारिकादिकायाश्रिता प्राणातिपातनिवर्तनसमर्था प्रतिविशिष्टा परिगृह्यते, न या काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियम्यनियामकभावः । कथमिति चेत्? उच्यते 'कायोऽधिकरणमपि भवति' इत्युक्तं प्राक्, ततः कायस्याधिकरणत्वात् कायिक्यां सत्यामवश्यमाधिकरणिकी, आधिकरणिक्यामवश्यं कायिकी, सा च प्रतिविशिष्टा कायिकी क्रिया प्रद्वेषमन्तरेण न भवति, ततः प्राद्वेषिक्यापि सह परस्परमविनाभावः प्रद्वेषोऽपि च काये स्फुटलिङ्ग एव, वक्त्ररुक्षत्वादेस्तदविनाभाविनः प्रत्यक्षत एवोपलम्भाद् । उक्तं च -