SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ૨૨ धर्मपरीक्षा लाग-२ | गाथा-५१ યોગથી આભોગપૂર્વકની હિંસા થાય તો કેવલીને અશુભયોગની પ્રાપ્તિ છે. તે રીતે કેવલી આભોગપૂર્વક વસ્ત્રાદિ ગ્રહણ કરે અને આભોગપૂર્વક અનેષણીય આહારગ્રહણ કરે તો કેવલીને અશુભયોગની પ્રાપ્તિ થાય. જો પૂર્વપક્ષી કહે કે કેવલી જાણતા હોવા છતાં અપવાદથી ધર્મોપકરણ ગ્રહણ કરે છે અને અપવાદથી અનેષણીય આહારગ્રહણ કરે છતાં તેમાં કેવલીને અશુભયોગની પ્રાપ્તિ નથી. તો તે રીતે કેવલી ઉપકાર અર્થે વિહાર કરતા હોય અને તેમના યોગને પામીને અશક્યપરિહારરૂપ હિંસા થાય તો તેમાં કેવલીને અશુભયોગની પ્રાપ્તિ નથી, એમ પૂર્વપક્ષીએ સ્વીકારવું જોઈએ. टीका : यदि च-“यत्तु श्रुतव्यवहारशुद्धस्याप्यनेषणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकृत्यैवावसातव्यं यथा 'अयं साधुरुदयनो राजा' इत्यत्र राजत्वमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद, भगवत्स्वीकृतानां श्रुतव्यवहारसि(?शु)द्धानां प्रतिषिद्धत्वाभिमतविषयप्रवृत्तीनां वस्तुतो न प्रतिषिद्धविषयत्वं, न वा तैः 'इदं सावधं' इति प्रज्ञाप्य प्रतिषेवित्वं, 'इदं' इत्यनेन प्रत्यक्षव्यक्तिग्रहणात्, तस्याश्चानवद्यत्वाद्" - इति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यं' इत्यादिप्रतिषेधवाक्ये श्रुतव्यवहारशद्धानेषणीयातिरिक्तानेषणीयादेनिषेध्यत्वं वक्तव्यं, तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यप्रतिषिद्धमेव, इत्याभोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां क्वापि न स्याद्, इति त्वदपेक्षया यतीनामशुभयोगत्वमुच्छिद्येतैव, इति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः । तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभत्वं, अशुभयोगजन्यजीवघातो वा(ना)ऽऽरंभकत्वव्यवहारविषयः, अशुभयोगारंभकपदयोः पर्यायत्वप्रसङ्गाद्, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच्च न हि ते आभोगेन जीवं जन्तीति, अस्ति च तेष्वप्यारम्भकत्वव्यवहारः । तदुक्तं भगवतीवृत्तौ “तत्थ णं जे ते असंजया ते अविरइं पडुच्च आयारंभा वि जाव णो अणारंभा" इत्यस्य व्याख्याने “इहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथञ्चिदात्माद्यारम्भकत्वेऽप्यनारंभकत्वम् । यदाह 'जा जयमाणस्स' (ओ. नि. ७५९) इत्यादि" किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपूर्वकव्यापारत्वं शुभयोगत्वं, तदनुपयोगपूर्वकव्यापारत्वं चाशुभयोगत्वं, तदुक्तं भगवतीवृत्तौ - “शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणं, अशुभयोगस्तु तदेवानुपयुक्ततया" इति, तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्वभावादेव, अशुभयोगश्च प्रमादोपाधिकः । तदुक्तं तत्रैव “प्रमत्तसंयतस्य हि शुभोऽशुभश्चयोगः स्यात्, संयतत्वात्प्रमादपरत्वाच्च" इति । तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षणादिकरणादशुभयोगदशायामारम्भिकीक्रियाहेतुव्यापारवत्त्वेन सामान्यत आरम्भकत्वा
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy