SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ૧૭૦ धर्मपरीक्षा नाग-२/गाथा-४५ गाथार्थ: અકરણનિયમની અપેક્ષાવાળું-પાપના નહીં કરવાના પરિણામની અપેક્ષાવાળું, આ કહેવાયું છે ઉપદેશપદમાં કહેવાયું છે, આનાથી જિનોને પ્રતિસેવાની સિદ્ધિ છે પરંતુ દ્રવ્યવધનો પ્રતિષેધ नथी. ||४|| टीs: अकरणणियमावेक्खं ति । एतद् ‘वीतरागो न किञ्चिद् गर्हणीयं करोति' इत्यकरणनियमापेक्षं भणितमुपदेशपदे, तत्र तस्यैवाधिकाराद्, अकरणनियमश्च पापशरीरकार्यहेतुराजयक्ष्मरोगस्थानीयः क्षयोपशमविशेषः, स च ग्रन्थिभेदादारभ्याऽऽक्षीणमोहं प्रवर्द्धते, यथा यथा च तत्प्रवृद्धिस्तथा तथा पापप्रवृत्त्यपकर्ष इति क्षीणमोहे मोहक्षयरूपस्याकरणनियमस्यात्यन्तोत्कर्षस्य सिद्धौ पापप्रवृत्तेरत्यन्तापकर्ष इति तत्र पापप्रवृत्त्यत्यन्ताभावः सिद्ध्यतीति सूत्रसन्दर्भेणैव तत्र (उपदेशपदे) स्फुटं प्रतीयते । तथाहि - "पावे अकरणणियमो पायं परतन्निवित्तिकरणाओ । णेओ य गंठिभेए भुज्जो तयकरणरूवो उ ।।६९५ ।।" कियदन्तरे च - “देसविरइगुणठाणे अकरणणियमस्स एव सब्भावो । सव्वविरइगुणठाणे विसिट्ठतरओ इमो होइ ।।७२९ ।। जं सो पहाणतरओ आसयभेओ अओ य एसो त्ति । एत्तोच्चिय सेढीए णेओ सव्वत्थ वी एसो ।।७३० ।। एत्तो उ वीयरागो ण किंचि वि करेइ गरहणिज्जं तु । ता तत्तग्गइखवणाइकप्पमो एस विण्णेओ ।।७३१ ।।" त्ति । तथा चेतो वचनादप्रतिसेवाया जिनानां सिद्धिः, प्रतिषेवारूपपापस्यैव प्रवृत्तेः पूर्वगुणस्थानेष्वपकर्षतारतम्याज्जिनानां तदत्यन्तापकर्षसंभवाद्, न तु द्रव्यवधस्य प्रतिषेधः, तस्यापकर्षतारतम्याऽदर्शनाद्, न हि सम्यग्दृष्टिदेशविरत्यादियोगाज्जायमानायां द्रव्यहिंसायामपकर्षभेदो दृश्यते येन जिनेषु तदत्यन्ताभावः सिद्ध्येद्, अभ्यंतरपापप्रतिषेवणे तु प्रतिगुणस्थानं महानेव भेदो दृश्यत इति केवलिनि तदत्यंताभावसिद्धिरनाबाधैवेति ॥४६॥ टीमार्थ :___एतद् ..... वेति । 'अकरणणियमावेक्खं' प्रती छ. सी पीत|Ets य ४२ता नथी' मे,
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy