________________
૧૫૦
धर्मपरीक्षा भाग-२ | गाथा-४४ જીવહિંસામાં તેના રક્ષાનો વિઘટક અનાભોગ નથી. પરંતુ અશક્તિ છે અને તે=જીવરક્ષાની અશક્તિ, યોગઅપકર્ષરૂપ નિગ્રંથમાં અને સ્નાતકમાં સ્થાનઔચિત્યથી અવિરુદ્ધ જ છે એ પ્રમાણે સ્વીકારવું ने . टी :
यदि च तादृशरक्षोपायाः केवलियोगा एव, तदनाभोगश्च निर्ग्रन्थस्य तद्विघटक इति वक्रः पन्थाः समाश्रीयते तदा प्रेक्षावतामुपहासपात्रताऽऽयुष्मतः, यत एवमनुपायादेव तस्य तद्रक्षाभाव इति वक्तव्यं स्यात्, न तूपायानाभोगादिति, कारणवैकल्यमेव हि कार्यविघटने तन्त्रं, न तु कारणज्ञानवैकल्यमपि न च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वमित्यपि युक्तिमद्, उल्लङ्घनप्रलङ्घनादिवैफल्यापत्तेः, केवलियोगेभ्यः स्वत एव जीवरक्षासिद्धौ तत्र तदन्यथासिद्धेः, अनुपायविषयेऽपि क्रियाव्यापाराभ्युपगमे च कोशादिस्थितिसाधनार्थमपि तदभ्युपगमप्रसङ्गात् ।
यदि च साध्वाचारविशेषपरिपालनार्थ एव केवलिनोऽसौ व्यापारो न तु जन्तुरक्षानिमित्तः, तस्याः स्वतः सिद्धत्वेन तत्साधनोदेशवैयर्थ्यात्, जन्तुरक्षानिमित्तत्वं तूपचारादुच्यते, मुख्यप्रयोजनसिद्धेश्च न तद्वैफल्यमिति वक्रकल्पना त्वयाऽऽश्रीयते तदा 'स्वशस्त्रं स्वोपघाताय' इति न्यायप्रसङ्गः, एवं ह्यशक्यपरिहारजीवहिंसास्थलेऽपि साध्वाचारविशेषपरिपालनार्थस्य भगवत्प्रयत्नस्य सार्थक्यसिद्धौ ‘संचेययओ अ जाइं सत्ताइ जोगं पप्प विणस्संति' इत्यत्र छद्मस्थ एवाधिकृत इति स्वप्रक्रियाभङ्गप्रसङ्गात्, तस्मादाभोगादनाभोगाद्वा जायमानायां हिंसायां प्राणातिपातप्रत्ययकर्मबन्धजनकयोगशक्तिविघटनं यतनापरिणामेन क्रियते इत्येतदर्थप्रतिपादनार्थं न च प्रयत्नं कुर्वतापि रक्षितुं पारितः' इत्युक्तम् । अत एव सूत्रेऽपीत्थमेव व्यवस्थितं, तथाहि - “वज्जेमित्ति परिणओ संपत्तीए विमुच्चई वेरा । अवहंतो वि ण मुच्चइ किलिट्ठभावोऽतिवायस्स ।।" (ओ.नि. ६१) इति । एतद् वृत्तिर्यथा- “वर्जयाम्यहं प्राणातिपातादीत्येवं परिणतः सन् संप्राप्तावपि कस्य ? अतिपातस्य प्राणिप्राणविनाशस्येत्युपरिष्टात्संबंधः, तथाऽपि विमुच्यते वैरात् कर्मबन्धाद् । यस्तु पुनः क्लिष्टपरिणामः सोऽव्यापादयन्नपि न मुच्यते वैराद् ।” – इति ज्ञात्वा जीवघातस्येर्यापथप्रत्ययकर्मबन्धजनने यतनापरिणामस्य सहकारित्वप्रतिपादनार्थं न च प्रयत्नं कुर्वतापि रक्षितुं पारितः' - इत्युक्तमित्यपरे । टीमार्थ :
यदि ..... इत्युक्तमित्यपरे । त रा रक्षा 6144 लीना योग ०४ छ भने dal અનાભોગ જીવરક્ષાનો અનાભોગ, નિર્ગથતો તદ્વિઘટક છે=જીવરક્ષાનો વિઘટક છે, એ પ્રકારનો