________________
૧૪૪
धर्मपरीक्षा भाग-२ | गाथा-४४ टी :
न च - अधिकृतविषये वाक्प्रयत्नो न विफलः, स्वल्पसंसार्यपेक्षया साफल्याद्, इतरापेक्षया वैफल्यस्य तत्राऽवास्तवत्वाद्ः अशक्यपरिहारजीवविराधनायां तु तद्रक्षाप्रयत्नः सर्वथैव विफल इति वैषम्यमिति तत्र वीर्यान्तरायक्षयवैफल्यापत्तिः, इति तत्साफल्यार्थं भगवद्योगानां हिंसायां स्वरूपायोग्यत्वमेवाभ्युपेयम् - इति शङ्कनीयं, एवं सति हि भगवतः क्षुत्पिपासापरीषहविजयप्रयत्नः क्षुत्पिपासानिरोधं विना विफल इति वीर्यान्तरायक्षयवैफल्यापत्तिनिरासार्थं भगवतः क्षुत्पिपासयोरपि स्वरूपायोग्यत्वं कल्पनीयमिति दिगम्बरस्य वदतो दूषणं न दातव्यं स्यादिति । यदि च क्षुत्पिपासयोनिरोद्धमशक्यत्वात् तत्परीषहविजयप्रयत्नो भगवतो मार्गाच्यवनादिस्वरूपेणैव फलवानिति विभाव्यते तदाऽशक्यपरिहारजीवविराधनाया अपि त्यक्तुमशक्यत्वात्तत्र जीवरक्षाप्रयत्नस्यापि भगवतस्तथास्वरूपेणैव फलवत्त्वमिति किं वैषम्यम् ? इत्थं च -
"तस्स असंचेययओ संचेययओ अ जाइं सत्ताई । जोगं पप्प विणस्संति णत्थि हिंसाफलं तस्स ।।७५१।। तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्यासञ्चयतोऽजानानस्य कं ? सत्त्वानि कथं ? प्रयत्नं कुर्वताऽपि कथमपि न दृष्टः प्राणी, व्यापादितश्च तथा सञ्चेयतो जानानस्य कथं ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च, न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं, प्राप्य विनश्यन्ति । तत्र नास्ति तस्य साधोः हिंसाफलं सांपरायिकं संसारजननं दुःखजननमित्यर्थः, यदि परमीर्याप्रत्ययं कर्म भवति, तच्चैकस्मिन् समये बद्धमन्यस्मिन् समये क्षिप(क्षपय)ति" इति ओघनियुक्तिसूत्रवृत्तिवचने “न च प्रयत्न कुर्वतापि रक्षितुं पारितः” इति प्रतीकस्य दर्शनाज्जीवरक्षोपायानाभोगादेव तदर्थोपपत्तेः केवलिभिन्नस्यैव ज्ञानिनो योगानामीर्यापथप्रत्ययकर्मबन्धानुकूलसत्त्वहिंसाहेतुत्वं सिद्ध्यति, न तु केवलिनः – इति निरस्तम् ।
न च प्रयत्नं कुर्वतापीत्यनेन प्रयत्नवैफल्यसिद्धिः, निजकायव्यापारसाध्ययतनाविषयत्वेन तत्साफल्याद्, अन्यथा तेन केवलिनो वीर्याऽविशुद्धिमापादयतो निर्ग्रन्थस्य चारित्राविशुद्ध्यापत्तेः तस्याप्याचाररूपप्रयत्नघटितत्वाद्, यतनात्वेन चोभयत्र शुद्ध्यविशेषाद् । टोडार्थ :
न च ..... शुद्ध्यविशेषाद् । भने अधिकृत विषयमांडेशना३५ अधिकृत विषयमां, वाईપ્રયત્ન=ભગવાનની દેશનાનો પ્રયત્ન, વિફલ નથી; કેમ કે સ્વલ્પ સંસારી અપેક્ષાએ સફલપણું છે,