________________
૭૨
धर्मपरीक्षा माग-१ | गाथा-6
टीs:
इत्थं च - लोइअमिच्छत्तं पुण सरूवभेएण हुज्ज चउभेअं । अभिगहिअमणभिगहिअं संसइअं तह अणाभोगं ।। तत्थ वि जमणाभोगं अव्वत्तं सेसगाणि वत्ताणि । चत्तारि वि जं णियमा सन्नीणं हुति भव्वाणं ।।
इति नवीनकल्पनां कुर्वनभव्यानां व्यक्तं मिथ्यात्वं न भवत्येवेति वदन् पर्यनुयोज्यः । ननु भोः ! कथमभव्यानां व्यक्तमिथ्यात्वं न भवति? नास्त्यात्मेत्यादिमिथ्यात्वविकल्पा हि व्यक्ता एव तेषां श्रूयन्ते । अभव्याश्रितमिथ्यात्वेऽनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता ।।९।। एतवृत्तिर्यथा-अभव्यानाश्रित्य मिथ्यात्वे सामान्येन व्यक्ताव्यक्तमिथ्यात्वविषयेऽनाद्यनन्ता स्थितिर्भवति । तथा सैव स्थितिभव्यजीवान् पुनराश्रित्याऽनादिसान्ता मता । यदाहमिच्छत्तमभव्वाणं तमणाइमणंतयं मुणेयव्वं । भव्वाणं तु अणाइसपज्जवसियं तु सम्मत्ते ।। इति गुणस्थानक्रमारोहसूत्रवृत्त्यनुसारेणाभव्यानां व्यक्तमपि मिथ्यात्वं भवतीत्यापातदृशापि व्यक्तमेव प्रतीयते ।
किञ्च स्थानांगानुसारेणाप्यभव्यानामाभिग्रहिकमिथ्यात्वं व्यक्तं प्रतीयते । तदुक्तं तत्र द्वितीयस्थानके प्रथमोद्देशके-'आभिग्गहियमिच्छदंसणे दुविहे पण्णत्ते, तंजहा-सपज्जवसिए चेव अपज्जवसिए चेवत्ति' ।
एतवृत्तिर्यथा-'आभिग्गहिए इत्यादि, आभिग्रहिकमिथ्यादर्शनं सपर्यवसितं=सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितं अभव्यस्य, सम्यक्त्वाऽप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते ।' इति ।
नन्वेवं ‘एवं अणभिग्गहियमिच्छादसणेवि' इत्यतिदेशादनाभिग्रहिकमिथ्यात्वमप्यभव्यानां प्राप्नोतीति 'अभव्यानामाभिग्रहिकाऽनाभोगलक्षणे द्वे एव मिथ्यात्वे' इति भवतां प्रतिज्ञा विलुप्येतेति चेत् ? न, मिच्छादसणे दुविहे पण्णत्ते-आभिग्गहियमिच्छादंसणे चेव अणभिग्गहियमिच्छादसणे चेव' त्तिप्रथमसूत्रे सकलभेदसंग्रहार्थमनाभिग्रहिकपदेनाभिग्रहिकातिरिक्तस्यैव ग्रहणात्, तदुक्तं तवृत्तौ-'अभिग्रहः कुमतपरिग्रहः,