SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૫ विपर्यासमूलकदालम्बनप्ररूपणयाऽप्युन्मार्गभवनाविशेषाद् । न हि ‘मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्गगामी । अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यत एव, न त्वनन्तसंसारनियमः, तन्नियमाभिधायकवचने उन्मार्गमार्गसंप्रस्थितपदेन तीर्थोच्छेदाभिप्रायवत एव ग्रहणादिति चेद्? अहो किंचिदपूर्वं युक्तिकौशलम् ! यदुक्तवचनबलात्तीर्थोच्छेदाभिप्रायवतां निह्नवानामनन्तसंसारनियमसिद्धौ पदविशेषतात्पर्यग्रहः, तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे । संप्रदायादीदृशोऽर्थो गृहीत इति न दोष इति चेद्? न, संप्रदायादध्यवसायं प्रतीत्य निह्नवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, उन्मार्गमार्गसंप्रस्थितानां तीव्राध्यवसायानामेव ग्रहणे बाहुल्याभिप्रायेण वा व्याख्याने दोषाभावाद् । न चेदेवं तदा 'वयमेव सृष्टिस्थित्यादिकारिणः' इत्याद्युत्सूत्रभाषिणोऽनवच्छिन्नमिथ्यात्वसन्तानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रजीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत, न चैतदशास्त्रीयं वचनम्, त्रिषष्टीयनेमिचरित्रेप्येवमुक्तत्वात् । तथा हि - 'प्रतिपद्य तथा रामो जगाम भरतावनौ । तथैव कृत्वा ते रूपे दर्शयामास सर्वतः ।। एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः । प्रकृष्टदेवताबुद्ध्या यूयं पूजयतादरात् ।। वयमेव यतः सृष्टिस्थितिसंहारकारिणः । वयं दिव इहायामो यामश्च स्वेच्छया दिवम् ।। निर्मिता द्वारकास्माभिः संहता च यियासुभिः । कर्ता हर्ता च नान्योऽस्ति स्वर्गदा वयमेव च ।। एवं तस्य गिरा लोकः सर्वो ग्रामपुरादिषु । प्रतिमाः कृष्णहलिनोः कारंकारमपूजयन् ।। प्रतिमार्चनकर्तृणां महान्तमुदयं ददौ ।। स सुरस्तेन सर्वत्र तद्भक्तोऽभूज्जनोऽखिलः ।।' इति ।।५।। टीमार्थ : अथ ..... इति ।। 'अथ'थी पूर्वपक्षी छ - "भासंप्रवृत्त सन्माना ना ४२नाअपा साधुने ગૌતમ ! ખરેખર અનંતસંસાર થાય છે." એ પ્રકારે ગચ્છાચાર પ્રકીર્ણકના બળથી ઉભાર્ગપતિત એવા
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy