SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૩૫ 3७७ टीका: ननु भवतु विषयशुद्धाद्यनुष्ठानत्रयमपुनर्बन्धकादौ कथञ्चित्सुन्दरं, तथापि वीतरागवचनप्रतिपादितस्यैव तद्गतस्यानुष्ठानस्यानुमोद्यत्वं, नान्यस्य, 'जो चेव भावलेसो सो चेव भगवओ अणुमओ' इत्यत्र भगवद्बहुमानरूपस्यैव भावलेशस्यानुमोद्यत्वप्रतिपादनादिति चेत् ? न, अन्यत्रापि भवाभिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तत्त्वतो भगवद्बहुमानरूपत्वाद्, 'भवनिर्वेदस्यैव भगवद्बहुमानत्वात्' इति ललितविस्तरापञ्जिकावचनात्, स्वरूपशुद्धं चानुष्ठानं सर्वत्रापि तत्त्वतो भगवत्प्रणीतमेवेति तत्प्रशंसया भवत्येव भगवद्बहुमानः, व्युत्पत्रा ह्यन्यशास्त्रे कथञ्चिदुपनिबद्धानपि मार्गानुसारिगुणान् भगवत्प्रणीतत्वेनैव प्रतियन्ति । तदाहुः श्रीसिद्धसेनसूरयः - सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः । तवैव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिन ! वाक्यविपुषः ।। इति । (द्वात्रिंशद् द्वात्रिंशिका १/३०) नन्दिवृत्तावप्येवमेवोक्तं - 'परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासारतास्वर्गापवर्गादिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः, न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितार्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वाद्, न चातीन्द्रियार्थपरिज्ञानं परतीथिकानामस्तीत्येतदने वक्ष्यामः, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वस्वमत्यनुसारेण तास्ताः स्वस्वप्रक्रियाः प्रपञ्चितवन्तः, उक्तं च स्तुतिकारेण ‘सुनिश्चितं इत्यादि ।।' ननु दयादिवचनानि परमते तत्त्वतो जिनवचनमूलान्यपि स्वस्वमताधिदेवतावचनत्वेन परिगृहीतत्वादेव नानुमोदनीयानि, अत एव मिथ्यादृष्टिभिः स्वस्वदेवताबिम्बत्वेन परिगृहीताऽर्हत्प्रतिमाप्युपासकदशाङ्गादिष्ववन्द्यत्वेन प्रतिपादितेति चेत् ? अत्र वदन्ति संप्रदायविदः - "यथा मिथ्यादृक्परिगृहीता तीर्थकृत्प्रतिमा मिथ्यात्वाभिवृद्धिनिवारणाय न विशेषेण नमस्क्रियते, सामान्येन तु 'जं किंचि नाम तित्थं' इत्यादिना 'जावंति चेइआई' इत्यादिना चाभिवन्द्यते एव, तत्त्वतस्तासामपि तीर्थत्वात् जिनबिम्बत्वाच्च, तथाऽत्रापि मिथ्यादृशां गुणाः ‘सर्वेषां जीवानां दयाशीलादिकं शोभनं' इत्येवं सामान्यरूपेणानुमोद्यमानाः केन वारयितुं शक्यन्ते?' इति, उक्तं चैतत् धर्मबिन्दुसूत्रवृत्त्योरपि (२-३) सद्धर्मदेशनाधिकारे साधारण्येन लोकलोकोत्तरगुणप्रशंसाप्रतिपादनात्, तथाहि-'साधारणगुणप्रशंसा' इति, साधारणानां लोकलोकोत्तरयोः सामान्यानां, गुणानां प्रशंसा पुरस्कारो, देशनार्हस्याग्रतो विधेया । यथाप्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः, श्रुते चासन्तोषः कथमनभिजाते निवसति ।।" इति ।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy