________________
धर्मपरीक्षा भाग -१ | गाथा - २५
૩૨૭
व्याख्या-भिन्नग्रन्थेस्तृतीयं तु अनिवृत्तिकरणं पुनर्भवति, एवं सति यत्सिद्धं तदाह-सम्यग्दृष्टेर्जीवस्य अतो हि=अत एव, करणत्रयलाभादेव हेतोः न = नैव, पतितस्य = तथाविधसङ्कलेशात्सम्यक्त्वात्परिभ्रष्टस्य, आप्यते = लभ्यते, बन्धो ज्ञानावरणादिपुद्गलग्रहणरूपः कीदृशोऽयं ? इत्याह- ग्रन्थिं = ग्रन्थिभेदकालभाविनीं कर्मस्थितिमित्यर्थः, उल्लङ्घ्य=अतिक्रम्य, देशितः = सप्ततिकोट्यादिप्रमाणतया प्रज्ञप्तः, 'बंधेण ण वोलइ कयाइ' इत्यादि वचनप्रामाण्यात् ।।२६६ ।।
"
एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः ।
मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ।।२६७।।
एवं=ग्रन्थेरुल्लङ्घनेन बन्धाभावात्, सामान्यतः न विशेषेण, ज्ञेयः परिणामोऽस्य सम्यग्दृशः शोभनः=प्रशस्तो, मिथ्यादृष्टेरपि सतः तथाविधमिथ्यात्वमोहोदयात्, कुतः ? इत्याह- महाबन्धविशेषतः, इह द्विधा बन्धः, महाबन्ध इतरबन्धश्च, तत्र मिथ्यादृष्टेर्महाबन्धः शेषश्चेतरस्य ततो महाबन्धस्य विशेषतो = अवस्थान्तरविशेषात् । इदमुक्तं भवति-लब्धसम्यक्त्वस्य प्राणिनो मिथ्यादृष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिव बन्धः, किन्तु कश्चिदत्यन्तन्यूनः
।। २६७ ।।
तद्विशेष एव कुतः ? इत्याह
सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः ।
अभिन्नग्रन्थिबन्धो यद् न त्वेकापीतरस्य तु ।। २६८ ।।
सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्मग्रन्थे प्रसिद्धा, अभिन्नग्रन्थेर्जीवस्योत्कर्षतो बन्धो यद्=यस्मात्कारणात्, न तु=न पुनः, एकापि सागरोपमकोटाकोटीबन्धः इतरस्य तु - भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि सतः ।।२६८।।
अथोपसंहरन्नाह
तदत्र परिणामस्य भेदकत्वं नियोगतः ।
बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ।।२६९।।
यतो ग्रन्थिमतिक्रम्यास्य न बन्धः तत् = तस्माद्, अत्र = अनयोर्भिन्नग्रन्थीतरयोर्जीवयोर्विषये, परिणामस्य=अन्तःकरणस्य, भेदकत्वं=भेदकभावो, नियोगतः = नियोगेन, बाह्यं तु बहिर्भवं पुनः, असदनुष्ठानमर्थोपार्जनादि प्रायो बाहुल्येन तुल्यं समं द्वयोरप्यनयोरिति ।। २६९।।”
सैद्धान्तिकमतमेतद् । येऽपि कार्मग्रन्थिका भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमिच्छन्ति, तेषामपि मतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वे न विप्रतिपत्तिः । यद्यपि अल्पबन्धेऽपि भिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राबल्ये ऽनन्तसंसारित्वं संभवति, तथापि मन्दीभूतं लोकोत्तरमिथ्यात्वं संनिहितमार्गावतारणबीजं स्यादिति विशेषः, न चैवं 'लौकिक मिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं '