________________
૨૭૫
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ रनादिप्रवाहपतिता कथं जिनवचनमूलिका संभवति? प्रत्यक्षबाधात् । किञ्च तेषां सर्वेषामप्यवज्ञाकरणेन जिनावज्ञाऽभ्युपगमे 'जीवो हन्तव्यः' इत्यादिनयप्रवादानामप्यवज्ञाकरणे तथात्वापत्तिरिति एतदन्यभावं कल्पयति-द्वादशाङ्गं हि सर्वोत्कृष्टं श्रुतज्ञानं केवलज्ञानदिवाकरस्य प्रकाशभूतं केवलज्ञानमिव प्रत्यात्मवर्तित्वादधिकरणभेदेन भिन्नमपि स्वरूपतो न भिन्नं, किन्तु केवलज्ञानमिवैकमेव, तुल्यविषयकत्वात् तुल्यसंबन्धित्त्वाच्च, उदयमधिकृत्य तु स्वरूपतोऽपि भित्रमेव, तत्कारणस्य क्षयोपशमस्य प्रत्यात्मभिन्नत्वात्, श्रुतज्ञानोदयस्य च क्षायोपशमिकत्वात्, ते च प्रवादा निजनिजद्वादशाङ्गमूलका अपि सामान्यतो द्वादशाङ्गमूलका एवोच्यन्ते । यथा नानाजलसंभूतान्यपि कमलानि सामान्यतो जलजान्येव, अत एव सर्वप्रवादानां मूलं द्वादशाङ्गमेवेति सामान्यतोऽभिहितं, सर्वस्यापि द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन सर्वाक्षरसंनिपातात्मकत्वात्, प्रवादा अप्यक्षरात्मका एव, अत एव द्वादशाङ्गं रत्नाकरतुल्यं रत्नाकरस्येव तस्याप्यनेकजातीयशुभाशुभनयलक्षणवस्तूनामाश्रयत्वात् । परं मिथ्यादृशां यद्वादशाङ्गं तत्स्वरूपत एव सर्वनयात्मकं, सत्तामात्रवर्त्तित्वात्, न पुनः फलतोऽपि, कस्यापि मिथ्यादृशः कदाचिदपि सर्वांशक्षयोपशमाभावात्, मिथ्यादृष्टिमात्रस्योत्कृष्टतोऽपि क्षयोपशमः सर्वांशक्षयोपशमलक्षणसमुद्रापेक्षया बिन्दुकल्पो भवति । यदुक्तं (षड्दर्शनसमुच्चयवृत्ति) - जयति विजितरागः (केवलालोकशाली, सुरपतिकृतसेवः श्रीमहावीरदेवः । यदसमसमयाब्धेश्चारुगाम्भीर्यभाजः, सकलनयसमूहा बिन्दुभावं भजन्ते ।।) इत्यादि ।
सम्यग्दृशां तु केषांचित्संयतानां फलतोऽपि द्वादशाङ्गस्य सर्वनयात्मकत्वं, सर्वांशक्षयोपशमस्य संभवाद्, अत एव गौतमादयः सर्वाक्षरसंनिपातिनः प्रवचने भणिताः, परं तेषां संयतानां सकलमपि द्वादशाङ्गं शुभनयात्मकत्वेनैव परिणमति, सावद्यनयविषयकानुज्ञादिवचनप्रवृत्तेरप्यभावाद् । एतेन सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसंबंधिनो बिन्दव इति भ्रान्तिरपि निरस्ता, 'षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि' इत्यादिप्रवादानामपि जैनागममूलकत्वापत्त्या संयतानां सावद्यभाषाप्रवृत्तिप्रसक्तेः । तस्मात्सर्वांशक्षयोपशमसमुत्थद्वादशाङ्गलक्षणसमुद्रस्य पुरस्तादन्यतिर्थिकाभिमतप्रवादाः समुदिता अपि बिन्दूपमा इत्यर्थो युक्तः, अन्यथा 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः स्यात्, अवयवाऽवयविनोरुपमानोपमेयभावेन वर्णने निजावयवापेक्षया महत्त्वेऽप्यवयविनो गौरवाभावाद्, न ह्यङ्गुष्ठो हस्तावयवभावं भजन्ते इति हस्तस्य स्तुतिः संभवति । किञ्च समुद्रस्य बिन्दव इति भणनमप्यसङ्गतं, समुद्रप्रभवा हि वेलाकल्लोलोादयो भवन्ति, न पुनर्बिन्दवः, तेषां चोत्पपत्तिर्मेघाद् हस्तवस्त्रादिव्यापाराद्वा स्यादिति सर्वानुभवसिद्धम्, अन्यथा समुद्रानिर्गतबिन्दुभिः समुद्रस्य न्यूनत्वापत्त्या तस्य गांभीर्यहानिः स्याद्, इत्येवं स्थिते वृत्तिव्याख्यानसङ्गतिरियम्