________________
૧૯૧
धर्मपरीक्षा भाग-१ | गाथा-१७ जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुंगवाः ।। एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् ।। यतो विशिष्टः कर्ताऽयं तदन्येभ्यो नियोगतः । तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ।।
अत्र पूर्वं ह्येकान्तेन योगाऽयोग्यस्यैव देवादिपूजनमासीत्, चरमावर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्त्तदेवादिपूजनस्याऽन्यावर्त्तदेवादिपूजनादन्यादृशत्वमिति वृत्तिकृद् विवृतवान् । एतेन यत्त्वन्यतीथिकाभिमताऽकरणनियमादेः सुन्दरत्वेन भणनं तद् हिंसाद्यासक्तजनस्य मनुष्यत्वस्येव स्वरूपयोग्यतया व्यवहारतो मन्तव्यं, निश्चयतस्तु मिथ्यादृगकरणनियमो हिंसाद्यासक्तजनमनुष्यत्वं वेत्युभयमपि संसारकारणत्वेनानर्थहेतुत्वादसुन्दरमेवेति यत्केनचिदुक्तं तदपास्तं, न ह्येतादृशं वचनमभिनिवेशं विना संभवति, यतः पूर्वसेवापि मुक्त्यद्वेषादिसङ्गता चरमावर्त्तभाविनी निश्चयतः प्राच्यावर्त्तभावितद्विलक्षणा योगयोग्यतयाऽऽचार्यैरतिशयितोक्ता, किं पुनरकरणनियमस्य साक्षाद् योगाङ्गस्य वक्तव्यमिति । न हि मनुष्यत्वसदृशमकरणनियमादिकं, अन्येषामपि सदाचाररूपस्य तस्य सामान्यधर्मप्रविष्टत्वात्, सामान्यधर्मस्य च भावलेशसङ्गतस्य विशेषधर्मप्रकृतित्वात्, मनुष्यत्वं चानीदृशम् । किञ्च हिंसाद्यासक्तमनुष्यत्वस्थानीयं यदि मिथ्यात्वविशिष्टमकरणनियमादिकं तदा मेघकुमारजीवहस्त्यादिदयापि तादृशी स्याद्, उत्कटमिथ्यात्वविशिष्टस्य तस्य तथात्वे चेष्टापत्तिः, अपुनर्बन्धकादीनामुत्कटमिथ्यात्वाभावात्पूर्वसेवायामपि च तेषामेवाधिकृतत्वात् । तदुक्तं -
अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता । कल्याणाशययोगेन शेषस्याप्युपचारतः ।।१७९।। इति । न चापुनर्बन्धकादेरपि न सम्यगनुष्ठानमिति शङ्कनीयम् - "सम्माणुट्ठाणं चिय ता सव्वमिणंति तत्तओ णेयं । ण य अपुनबंधगाई मुत्तुं एयं इहं होइ ।।९९६।।"
"सम्यगनुष्ठानमेव=आज्ञानुकूलाचरणमेव तत्-तस्मात् सर्वं त्रिप्रकारमपीदमनुष्ठानं तत्त्वतः=पारमार्थिकव्यवहारनयदृष्ट्या, ज्ञेयम्, अत्र हेतुमाह-न च नैव यतोऽपुनर्बन्धकमार्गाभिमुखमार्गपतितान्मुक्त्वा एतदनुष्ठानमिहैतेषु जीवेषु भवति, अपुनर्बन्धकादयश्च सम्यगनुष्ठानवन्त एव" इत्युपदेशपदसूत्रवृत्तिवचनादपुनर्बन्धकादेः