________________
૧૮૫
धर्मपरीक्षा भाग-१ | गाथा-१७ यथाप्रवृत्तकरणविभागभाजामेवापुनर्बन्धकादीनामधिकारित्वभणनम्, तादृशानां तेषां सम्यक्त्वसंनिहितत्वाद् । अत एव - 'भवहेऊ नाणमेयस्स पायसोऽसप्पवित्तिभावेणं । तह तयणुबंधओ च्चिय तत्तेयरनिंदणाइओ ।।४४६।।' 'भवहेतुः संसारनिबन्धनं, ज्ञानं शास्त्राभ्यासजन्यो बोधः, एतस्य मिथ्यादृष्टेः, कथं? इत्याह - प्रायशो बाहुल्येन, असत्प्रवृत्तिभावेन विपर्यस्तचेष्टाकरणात्तस्य, यदिह प्रायोग्रहणं तद् यथाप्रवृत्तकरणचरमविभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केषाञ्चिद्दुःखितदयागुणवदद्वेषसमुचिताचारप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारवारणार्थम्, तथेति हेत्वन्तरसमुच्चये, तदनुबन्धत एवासत्प्रवृत्त्यनुबन्धादेव । एतदपि कुतः? इत्याह तत्त्वेतरनिन्दनादितः, स हि मिथ्यात्वोपघातात्समुपात्तविपरीतरुचिः, तत्त्वं च सद्भूतदेवतादिकमहत्त्वादिलक्षणं निंदति, इतरच्चातत्त्वं तत्कुयुक्तिसमुपन्यासेन पुरस्करोति ततस्तत्त्वेतरनिन्दनादितो दोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तैव स्याद्' इत्युपदेशपदवचनान्तरं (श्लो. ४४६) अनुसृत्य 'अत्रानादि-प्रवाहपतितस्य यथाप्रवृत्तकरणस्य चरमविभागः सम्यक्त्वप्राप्तिहेतुकर्मक्षयोपशमलक्षितावस्थाविशेषस्तद्वतां संनिहितग्रन्थिभेदानां स्वल्पकालप्राप्तव्यसम्यक्त्वानामत्यन्तजीर्णमिथ्यात्वज्वराणां सुन्दरप्रवृत्तिरिति भणनेन तद्व्यतिरिक्तानां तु सर्वेषामपि मिथ्यादृशामसुन्दरप्रवृत्तिरेवोक्तेति सूक्ष्मदृशा पर्यालोच्यमि'ति तेनोक्तम् ।
तत्रेदं विचारणीयं – चरमत्वं यथाप्रवृत्तकरणस्यानन्तपुद्गलपरावर्तभाविनश्चरमैकावर्त्तमात्रेणापि निर्वाह्यं, संनिहितग्रन्थिभेदत्वस्य तु न स्वल्पकालप्राप्तव्यसम्यक्त्वाक्षेपकता। 'आसन्ना चेयमस्योच्चैश्चरमावर्त्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किंचन ।।१७६।।
आसन्ना=चाभ्यर्णवर्तिन्येव इयं=मुक्तिः अस्योच्चैरतीव चरमावर्तिनश्चरमपुद्गलपरावर्त्तभाजो जीवस्य, यतः कारणाद् भूयांसोऽतीवबहवः अमी आवर्ता व्यतिक्रान्ता-अनादौ संसारे व्यतीताः, तत्र तद् एकोऽपश्चिमः अत्र न किंचन न किञ्चिद्भयस्थानमेष इत्यर्थः' इति योगबिन्दुसूत्रवृत्तिवचनाच्चरमावर्तिन आसनसिद्धिकत्वस्यापि स्वल्पकालप्राप्तव्यसिद्ध्याक्षेपकत्वापत्तेः, आपेक्षिकासन्नतया समाधानं चोभयत्र सुघटमिति । टीवार्थ:
एवं च ..... सुघटमिति । स मा शतपूर्व 4gla \ / अपुनsat Gष्ट 4 में પુદ્ગલપરાવર્ત છે અને સમ્યક્ત પામ્યા પછી મિથ્યાત્વને પામે તોપણ સંસાર પરિભ્રમણનો કાળ ઉત્કૃષ્ટથી કાંઈક ન્યૂન અર્ધપગલપરાવર્ત છે એ રીતે, “ઉત્કર્ષથી પણ અર્ધપગલપરાવર્તથી ન્યૂન અવશેષ સંસારવાળા જીવોનું જ માર્ગાનુસારીપણું છે" એ પ્રમાણે કોઈના વડે જે કહેવાયું તે કયા અભિપ્રાયથી